Udyōgaparva Chapter - 14
उद्योगपर्व - Udyōgaparva
अध्यायः – 14 ::Chapter-14
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच॥ एवमुक्ते तु कृष्णेन सम्प्रहृष्यन्नरोत्तमाः । तेषां प्रहृष्टमनसां नादः समभवन्महान् ॥ 1॥ योग इत्यथ सैन्यानां त्वरतां सम्प्रधावताम् । हयवारणशब्दश्च नेमिघोषश्च सर्वशः ॥ ॥ शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् ॥ 2॥ प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः । गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ॥ 3॥ अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ । सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः ॥ प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः ॥ 4॥ ततः शब्दः समभवत्समुद्रस्येव पर्वणि । हृष्टानां सम्प्रयातानां घोषो दिवमिवास्पृशत् ॥ 5॥ प्रहृष्टा दंशिता योधाः परानीकविदारणाः । तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ॥ 6॥ शकटापणवेशाश्च यानयुग्यं च सर्वशः । कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ॥ 7॥ फल्गु यच्च बलं किञ्चित्तथैव कृशदुर्बलम् । तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ॥ 8॥ उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी । सह स्त्रीभिर्निववृते दासीदाससमावृता ॥ 9॥ कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः । स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ॥ 10॥ ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः । स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः ॥ 11॥ केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः । श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ॥ 12॥ हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः । राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ॥ 13॥ जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः । सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ॥ 14॥ रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः । पत्तिसैन्यं दशगुणं सादिनामयुतानि षट् ॥ 15॥ अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः । परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ॥ 16॥ आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः । पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ॥ 17॥ तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः । तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ ॥ 18॥ पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः । निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः ॥ 19॥ शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम् । पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ॥ 20॥ ततो देशे समे स्निग्धे प्रभूतयवसेन्धने । निवेशयामास तदा सेनां राजा युधिष्ठिरः ॥ 21॥ परिहृत्य श्मशानानि देवतायतनानि च । आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ॥ 22॥ मधुरानूषरे देशे शिवे पुण्ये महीपतिः । निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ॥ 23॥ ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः । प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ॥ 24॥ विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् । पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ॥ 25॥ शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः । सात्यकिश्च रथोदारो युयुधानः प्रतापवान् ॥ 26॥ आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् । सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ॥ 27॥ खानयामास परिखां केशवस्तत्र भारत । गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ॥ 28॥ विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् । तद्विधानि नरेन्द्राणां कारयामास केशवः ॥ 29॥ प्रभूतजलकाष्ठानि दुराधर्षतराणि च । भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः ॥ 30॥ शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् । विमानानीव राजेन्द्र निविष्टानि महीतले ॥ 31॥ तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः । सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः ॥ 32॥ ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः । ससर्ज रसपांसूनां राशयः पर्वतोपमाः ॥ 33॥ बहूदकं सुयवसं तुषाङ्गारसमन्वितम् । शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ॥ 34॥ महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः । धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा ॥ 35॥ गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः । अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः ॥ 36॥ निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत । अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः ॥ 37॥ चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः । जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ॥ 38॥ |
38 (893) |
Vaisampayana said, 'When Krishna spoke these words, all the kings present were filled with joy. The roar from those delighted rulers was immense. The troops sprang into action, shouting, 'Form up, Form up!' The sounds of neighing horses, roaring elephants, clattering chariots, blaring conchs, and booming drums filled the air, creating an overwhelming noise. The mighty marching army of the Pandavas, teeming with chariots, foot soldiers, horses, and elephants, looked like the raging current of the Ganga at full flood, swirling with fierce eddies and waves. Leading the charge was Bhimasena, along with the two sons of Madri, Subhadra’s son, Draupadi's five sons, and Dhrishtadyumna from the Prishata line. The Prabhadrakas and the Panchalas followed behind Bhimasena. The noise of the jubilant troops was akin to the thundering roar of the ocean at high tide during the new moon. Indeed, the uproar seemed to reach the heavens. Those warriors, clad in armour and ready for battle, marched forward in joy. King Yudhishthira, Kunti’s son, led them, bringing along chariots, provisions, tents, animals for transport, the cash reserves, weapons, surgeons, the injured, and all the weak soldiers, plus their attendants. Meanwhile, the faithful Draupadi, princess of Panchala, remained at Upaplavya with the women of her household, surrounded by servants and maids.' To protect their treasures and ladies, the Pandavas arranged for soldiers to guard them, some forming a steady perimeter while others moved strategically at a distance. They set off with their grand army. After giving gifts of cattle and gold to the Brahmins, who walked among them offering blessings, the sons of Pandu began their journey in their jeweled chariots. The princes of Kekaya, Dhrishtaketu, the king of Kasis' son, Srenimat, Vasudana, and the unbeatable Shikhandin, all healthy and well-armed in their shining armour, marched proudly behind Yudhishthira, keeping him at the center. Following them were Virata, Dhrishtadyumna, his sons, and many others, totalling forty thousand chariots, a cavalry five times that number, ten times more infantry, and sixty thousand elephants. Anadhrishti, Chekitana, Dhrishtaketu, and Satyaki surrounded Vasudeva and Dhananjaya. Upon reaching the battlefield of Kurukshetra, their forces arrayed for combat, the Pandava sons resembled fierce bulls. As they entered the field, the sound of their conchs filled the air, signalling their determination. Vasudeva and Dhananjaya joined in, producing a thundering sound with the Panchajanya conch, inspiring joy among their warriors. The resonant roars of these agile and quick warriors, blending with the conch blasts and drumbeats, echoed throughout the earth, sky, and seas." Vaisampayana said, 'King Yudhishthira arranged for his troops to camp in a flat, cool area rich with grass and firewood. He avoided graveyards, temples, sacred groves, and the homes of sages, instead choosing a pleasant and fertile spot on the plain. After giving his animals enough rest, the king joyfully set out, surrounded by many other kings. Kesava and Partha began to move about, deploying numerous soldiers as sentries. Dhrishtadyumna from the Prishata lineage and the valiant Yuyudhana, known as Satyaki, measured the area for the camp. They reached the holy Hiranwati River flowing through Kurukshetra, known for its pure waters and clear riverbed. Kesava had a trench dug there and stationed enough troops for its protection. He observed the same rules for the tents of the allied kings as he did for the noble Pandavas. Expensive, impenetrable tents resembling palatial homes were set up in abundance for these kings, each filled with supplies of food and drink. Hundreds of skilled workers, paid regularly, and knowledgeable surgeons and doctors prepared with all necessary equipment for their duties were also gathered there.' King Yudhishthira had large supplies brought to every tent, stacked high like hills, including bow-strings, bows, armour, various weapons, honey, clarified butter, ground lac, water, cattle feed, chaff, and coals. There were also heavy war machines, long shafts, lances, battle axes, bow-staffs, breastplates, curved swords, and quivers. Countless elephants, armoured with steel plates and spikes, as large as hills and ready to battle hundreds, were present. When the allies learned that the Pandavas had set up camp in that field, they began to move their troops and animals towards them. Many kings who followed the Brahmacharya vows, partook of consecrated Soma, and made generous offerings to Brahmanas at sacrifices, also came to support the sons of Pandu.'" |
|
जनमेजय उवाच॥ युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया । संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ॥ 1॥ विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् । केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥ 2॥ महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः । श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥ 3॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । सम्भ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ॥ 4॥ व्यथयेयुर्हि देवानां सेनामपि समागमे । पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ॥ 5॥ धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः । युयुधानश्च विक्रान्तो देवैरपि दुरासदः ॥ 6॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥ 7॥ वैशम्पायन उवाच॥ प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा । कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ॥ 8॥ अकृतेनैव कार्येण गतः पार्थानधोक्षजः । स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् ॥ 9॥ इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः । भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥ 10॥ अजातशत्रुरप्यद्य भीमार्जुनवशानुगः । निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ॥ 11॥ विराटद्रुपदौ चैव कृतवैरौ मया सह । तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥ 12॥ भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः । तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः ॥ 13॥ शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः । सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ॥ 14॥ आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः । अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च ॥ 15॥ विविधायुधपूर्णानि पताकाध्वजवन्ति च ॥ समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः । प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ॥ 16॥ ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा । हृष्टरूपा महात्मानो विनाशाय महीक्षिताम् ॥ 17॥ ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् । आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ॥ 18॥ बाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः । काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् ॥ 19॥ उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः । अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥ 20॥ ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः । सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः ॥ 21॥ अथ वर्माणि चित्राणि काञ्चनानि बहूनि च । विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः ॥ 22॥ पदातयश्च पुरुषाः शस्त्राणि विविधानि च । उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः ॥ 23॥ तदुत्सव इवोदग्रं सम्प्रहृष्टनरावृतम् । नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥ 24॥ जनौघसलिलावर्तो रथनागाश्वमीनवान् । शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् ॥ 25॥ चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् । प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ॥ 26॥ योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः । अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः ॥ 27॥ |
27 (920) |
Janamejaya said, 'Upon hearing that Yudhishthira had marched with his army, driven by the desire for battle, and set up camp on Kurukshetra, with Vasudeva's protection and assistance from Virata, Drupada, and their sons, surrounded by the Kekayas, the Vrishnis, and many other kings, and guarded by numerous mighty chariot warriors, much like the great Indra himself among the Adityas, what plans did King Duryodhana devise? O noble one, I want to hear in detail all that transpired in Kurujangala during that alarming time. The son of Pandu, alongside Vasudeva, Virata, Drupada, Dhrishtadyumna the Panchala prince, the mighty car-warrior Sikhandin, and the formidable Yudhamanyu, who could challenge even the gods, might disturb the deities themselves in battle, even with Indra leading them. Therefore, I wish to learn comprehensively, O you filled with the wealth of asceticism, all the deeds of the Kauravas and the Pandavas as they unfolded.' 'Vaisampayana said, 'After he of Dasarha's lineage had left the Kuru court, King Duryodhana turned to Karna, Dussasana, and Sakuni and spoke, 'Kesava has gone to the sons of Pritha but has failed to accomplish his aim. Filled with rage, he will certainly provoke the Pandavas. Vasudeva desires a battle between me and the Pandavas. Bhimasena and Arjuna always align with him. Yudhishthira is greatly influenced by Bhimasena. In the past, I persecuted Yudhishthira and his brothers. Virata and Drupada, with whom I have fought before, now serve as leaders of Yudhishthira's army, obedient to Vasudeva. Thus, the battle that lies ahead will be fierce and terrifying. Therefore, shake off all complacency and make every necessary preparation for the confrontation.' Let the kings who are my allies set up their camps by the hundreds and thousands on Kurukshetra, making sure each tent is spacious and defensible against enemies, located close to ample sources of water and fuel, so that supplies can reach them without interruption from our foes. Each camp should be equipped with various weapons and adorned with banners and flags. The road from our city to the camp should be made smooth for their journey. Let it be announced today, without delay, that we will begin our march tomorrow.' Upon hearing this order from the king, they responded, 'Understood,' and when the next day arrived, those noble leaders diligently prepared everything needed for the kings. Meanwhile, the monarchs, upon hearing the royal decree, rose from their luxurious seats, fuelled by anger at the enemy. They began to exercise their strong arms, shining with golden bracelets, and adorned with fragrant pastes. With hands as delicate as lotus petals, they donned their headgear, clothing, and various ornaments. Many elite charioteers began preparing their chariots, while horse experts harnessed their steeds, and those knowledgeable about elephants equipped the massive creatures. Warriors adorned themselves in beautiful golden armour and armed themselves with various weapons. The foot soldiers picked up their arms and donned diverse types of armour embellished with gold. And, O Bharata, the city of Duryodhana was alive with celebrations, shining brightly as if it were a festival. And, O king, the Kuru capital, in anticipation of battle, resembled the ocean under a full moon, with the throngs of people like its waters swirling around; the chariots, elephants, and horses were like its fish; the blaring of conchs and drums echoed like its waves; the treasure chests sparkled like jewels; the various ornaments and armor mirrored its waves; the gleaming weapons were like the ocean's foam; the rows of houses resembled mountains along its shore; and the streets and shops looked like tranquil lakes. |
इति श्री जयसंहिते उद्योगपर्वणि चतुर्दशोऽध्यायः॥
Comments
Post a Comment