Virāṭaparva - Chapter-10

 

विराटपर्व - Virāṭaparva

अध्यायः – 10  ::Chapter-10

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

ततस्तृतीये दिवसे भ्रातरः पञ्च पाण्डवाः ।

स्नाताः शुक्लाम्बरधराः समये चरितव्रताः ॥ 1॥

युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः ।

अभिपद्मा यथा नागा भ्राजमाना महारथाः ॥ 2॥

विराटस्य सभां गत्वा भूमिपालासनेष्वथ ।

निषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्विवाग्नयः ॥ 3॥

तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः ।

आजगाम सभां कर्तुं राजकार्याणि सर्वशः ॥4॥

श्रीमतः पाण्डवान्दृष्ट्वा ज्वलतः पावकानिव ।

अथ मत्स्योऽब्रवीत्कङ्कं देवरूपमवस्थितम् ॥

मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥ 5॥

स किलाक्षातिवापस्त्वं सभास्तारो मया कृतः ।

अथ राजासने कस्मादुपविष्टोऽस्यलङ्कृतः ॥ 6॥

परिहासेप्सया वाक्यं विराटस्य निशम्य तत् ।

स्मयमानोऽर्जुनो राजन्निदं वचनमब्रवीत् ॥7॥

इन्द्रस्याप्यासनं राजन्नयमारोढुमर्हति ।

ब्रह्मण्यः श्रुतवांस्त्यागी यज्ञशीलो दृढव्रतः ॥ 8॥

अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः ।

अस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥ 9॥

एनं दश सहस्राणि कुञ्जराणां तरस्विनाम् ।

अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ॥ 10॥

त्रिंशदेनं सहस्राणि रथाः काञ्चनमालिनः ।

सदश्वैरुपसम्पन्नाः पृष्ठतोऽनुययुः सदा ॥ 11॥

एनमष्टशताः सूताः सुमृष्टमणिकुण्डलाः ।

अस्तुवन्मागधैः सार्धं पुरा शक्रमिवर्षयः ॥ 12॥

एष सर्वान्महीपालान्करमाहारयत्तदा ।

वैश्यानिव महाराज विवशान्स्ववशानपि ॥ 13॥

अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् ।

उपजीवन्ति राजानमेनं सुचरितव्रतम् ॥ 14॥

एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूंश्च मानवान् ।

पुत्रवत्पालयामास प्रजा धर्मेण चाभिभो ॥ 15॥

एष धर्मे दमे चैव क्रोधे चापि यतव्रतः ।

महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥ 16॥

श्रीप्रतापेन चैतस्य तप्यते स सुयोधनः ।

सगणः सह कर्णेन सौबलेनापि वा विभुः ॥ 17॥

न शक्यन्ते ह्यस्य गुणाः प्रसङ्ख्यातुं नरेश्वर ।

एष धर्मपरो नित्यमानृशंस्यश्च पाण्डवः ॥ 18॥

एवंयुक्तो महाराजः पाण्डवः पार्थिवर्षभः ।

कथं नार्हति राजार्हमासनं पृथिवीपतिः ॥ 19॥

 19 (629)

"Vaisampayana said, 'On the third day, dressed in white robes after bathing and adorned with various ornaments, the five great warriors, the Pandava brothers, led by Yudhishthira, looked magnificent as they entered the palace like five drunken elephants. Once inside the council hall of Virata, they took their places on the royal thrones and shone like flames on a sacrificial altar. After they sat down, Virata, the king, arrived to hold his council and perform his royal duties. Upon seeing the glorious Pandavas glowing like fires, the king paused in thought. Filled with anger, the Matsya king addressed Kanka, who was seated there like a divine figure among divine beings, saying, 'You were a player at dice and now, dressed in fine robes and ornaments, how can you take the royal seat?'

Vaisampayana continued, 'Hearing Virata's words and wanting to tease him, Arjuna replied with a smile, 'This man, O king, deserves to sit with Indra himself. Possessed of great strength, he is none other than the just King Yudhishthira, the pride of the Kuru race. Just as rays follow the sun, ten thousand swift elephants followed him during his time among the Kurus. Indeed, thirty thousand golden chariots, drawn by the finest steeds, accompanied him as well. Additionally, eight hundred bards adorned with gem-studded earrings accompanied by musicians sang his praises like the sages honouring Indra.'.

This great king, shining like the sun, made all the earthly lords pay him tribute as if they were farmers. Eighty-eight thousand noble souls, devoted to righteous living, relied on this king who upheld excellent vows. This remarkable ruler cared for the elderly, the weak, the disabled, and the blind as if they were his own children, governing his people with honor. Steadfast in morals and self-control, he kept his temper in check, was generous, loyal to the Brahmins, and truthful. He is the son of Pandu. The success and strength of this king trouble King Suyodhana and his allies, including Kama and Suvala's son. And, O leader of men, the virtues of this king cannot be fully counted. This son of Pandu commits to righteousness and always avoids causing harm. With such remarkable qualities, does not this supreme king, this son of Pandu, deserve, O ruler, to take the throne?

विराट उवाच॥

यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः ।

कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली ॥ 1॥

नकुलः सहदेवो वा द्रौपदी वा यशस्विनी ।

यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित् ॥ 2॥

अर्जुन उवाच॥

य एष बल्लवो ब्रूते सूदस्तव नराधिप ।

एष भीमो महाबाहुर्भीमवेगपराक्रमः ॥ 3॥

एष क्रोधवशान्हत्वा पर्वते गन्धमादने ।

सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत् ॥ 4॥

गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् ।

व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव ॥ 5॥

यश्चासीदश्वबन्धस्ते नकुलोऽयं परन्तपः ।

गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महारथौ ॥ 6॥

शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ ।

नानारथसहस्राणां समर्थौ पुरुषर्षभौ ॥ 7॥

एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी ।

सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः ॥ 8॥

अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः ।

भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः ॥ 9॥

उषिताः स्म महाराज सुखं तव निवेशने ।

अज्ञातवासमुषिता गर्भवास इव प्रजाः ॥ 10

विराट उवाच॥

अहं खल्वपि सङ्ग्रामे शत्रूणां वशमागतः ।

मोक्षितो भीमसेनेन गावश्च विजितास्तथा ॥ 11॥

एतेषां बाहुवीर्येण यदस्माकं जयो मृधे ।

वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् ॥

प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम् ॥ 12॥

यदस्माभिरजानद्भिः किञ्चिदुक्तो नराधिपः ।

क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः ॥ 13॥

वैशम्पायन उवाच॥

ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार ।

राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा ॥ 14॥

पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान् ।

धनञ्जयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत् ॥ 15॥

समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः ।

युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ ॥ 16॥

नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः ।

सम्प्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् ॥ 17॥

दिष्ट्या भवन्तः सम्प्राप्ताः सर्वे कुशलिनो वनात् ।

दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः ॥ 18॥

इदं च राज्यं नः पार्था यच्चान्यद्वसु किञ्चन ।

प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया ॥ 19॥

उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जयः ।

अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥ 20॥

एवमुक्तो धर्मराजः पार्थमैक्षद्धनञ्जयम् ।

ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत् ॥ 21॥

प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव ।

युक्तश्चावां हि सम्बन्धो मत्स्यभारतसत्तमौ ॥ 22॥

22 (651)

Virata said, 'If this truly is King Yudhisthira of the Kurus, son of Kunti, then tell me, who among them is his brother Arjuna, and who is the mighty Bhima? Which one is Nakula, and which is Sahadeva? And where is the renowned Draupadi? Since their defeat in the game of dice, no one has heard from the sons of Pritha.'

Arjuna replied, 'This one before you, O king, known as Vallava and your cook, is indeed Bhima, the one with mighty strength and formidable prowess. He was the one who defeated the fierce Rakshasas in the mountains of Gandhamadana and brought Krishna celestial flowers of unmatched fragrance. He is also the Gandharva who vanquished the wicked Kichaka and hunted tigers, bears, and boars within your palace. The one who tended your horses is Nakula, the slayer of foes, and this is Sahadeva, the keeper of your cattle. Both of these sons of Madri are remarkable charioteers, famous for their valour and handsome appearance.  Clad in fine garments and adorned with exquisite ornaments, these two champions of the Bharata lineage can stand against a thousand great charioteers.

And this lady, with eyes like lotus petals, a slender waist, and a charming smile, is Drupada's daughter, your wife's Sairandhri, for whom the Kichakas were killed. I am Arjuna, whose name you must have heard; I am Bhima's younger brother and the elder of the twins! O king, we have peacefully spent our time in your realm, hidden like infants in the womb!'

Virata said, 'When I was defeated in battle, it was Bhimasena who saved me. Arjuna has also recovered my cattle. It is thanks to their strength that we achieved victory. Therefore, let us all, along with our advisors, honor Yudhishthira, the son of Kunti. May you and your brothers be blessed, O strong one among the sons of Pandu. If we have ever offended you, knowingly or unknowingly, we ask for your forgiveness. The son of Pandu is a noble man.'

Vaisampayana continued, 'Then Virata, full of joy, approached king Yudhishthira to form an alliance, offering him his entire kingdom, along with the royal scepter, treasury, and the capital city. Addressing all the Pandavas, especially Dhananjaya, the mighty king of the Matsyas repeatedly exclaimed, 'It is truly fortunate to see you all.' After embracing Yudhishthira, Bhima, and the sons of Madri numerous times and smelling their heads, Virata, a ruler with a vast army, couldn't get enough of looking at them.

Delighted, he said to king Yudhishthira, 'I am so lucky to see you safe from the forest. It is fortunate that you have completed your exile without being found by those wicked foes. I hereby give my entire kingdom to the sons of Pritha and everything else I possess. Let the sons of Pandu accept it without hesitation. And let Dhananjaya, also known as Savyasachin, take Uttara's hand in marriage, for he is worthy to be her husband.' After this, king Yudhishthira looked at Dhananjaya, the son of Pritha. In response, Arjuna said to the Matsya king, 'O monarch, I accept your daughter as my daughter-in-law. This alliance between the Matsyas and the Bharatas is indeed a welcome one.''"

विराट उवाच॥

किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम ।

प्रतिग्रहीतुं नेमां त्वं मया दत्तामिहेच्छसि ॥ 1॥

अर्जुन उवाच॥

अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव ।

रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ॥ 2॥

प्रियो बहुमतश्चाहं नर्तको गीतकोविदः ।

आचार्यवच्च मां नित्यं मन्यते दुहिता तव ॥ 3॥

वयःस्थया तया राजन्सह संवत्सरोषितः ।

अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो ॥ 4॥

तस्मान्निमन्त्रये त्वाहं दुहितुः पृथिवीपते ।

शुद्धो जितेन्द्रियो दान्तस्तस्याः शुद्धिः कृता मया ॥ 5॥

स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः ।

अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ॥ 6॥

अभिषङ्गादहं भीतो मिथ्याचारात्परन्तप ।

स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ॥ 7॥

अभिमन्युर्महाबाहुः पुत्रो मम विशां पते ।

जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥ 8॥

विराट उवाच॥

उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनञ्जये ।

य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः ॥ 9॥

यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् ।

सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः ॥ 10॥

वैशम्पायन उवाच॥

एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः ।

अन्वजानात्स संयोगं समये मत्स्यपार्थयोः ॥ 11॥

ततो मित्रेषु सर्वेषु वासुदेवे च भारत ।

प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥ 12

ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः ।

उपप्लव्ये विराटस्य समपद्यन्त सर्वशः ॥ 13॥

तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम् ।

आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः ॥ 14॥

काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे ।

अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते ॥ 15॥

अक्षौहिण्या च तेजस्वी यज्ञसेनो महाबलः ।

द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ॥ 16॥

धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः ।

समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ॥ ॥

सर्वे शस्त्रास्त्रसम्पन्नाः सर्वे शूरास्तनुत्यजः ॥ 17॥

तानागतानभिप्रेक्ष्य मत्स्यो धर्मभृतां वरः ।

प्रीतोऽभवद्दुहितरं दत्त्वा तामभिमन्यवे ॥ 18॥

ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः ।

तत्रागमद्वासुदेवो वनमाली हलायुधः ॥ ॥

कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः ॥19 ॥

अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च ।

अभिमन्युमुपादाय सह मात्रा परन्तपाः ॥ 20॥

इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः ।

आययुः सहिताः सर्वे परिसंवत्सरोषिताः ॥ 21॥

दश नागसहस्राणि हयानां च शतायुतम् ।

रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् ॥ 22॥

वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः ।

अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् ॥ 23॥

पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् ।

स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः ॥ ॥

ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः ॥ 24॥

ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा ।

पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि ॥ 25॥

उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून् ।

सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् ॥ 26॥

गायनाख्यानशीलाश्च नटा वैतालिकास्तथा ।

स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ॥ 27॥

सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः ।

आजग्मुश्चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः ॥ 28॥

वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलङ्कृताः ।

सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया ॥ 29॥

परिवार्योत्तरां तास्तु राजपुत्रीमलङ्कृताम् ।

सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥ 30॥

तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनञ्जयः ।

सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा ॥ 31॥

तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन् ।

स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः ॥ 32॥

प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम् ।

विवाहं कारयामास सौभद्रस्य महात्मनः ॥ 33॥

33 (684)

Virata asked, 'Why, O greatest among the Pandavas, do you refuse to accept my daughter as your wife?'

Arjuna replied, 'During my time in your palace, I often saw your daughter, and she trusted me as a father figure, whether she was alone or with others. I was skilled in singing and dancing, and she liked me, always seeing me as her protector. O king, I lived with her for an entire year, even after she reached maturity. Given these circumstances, no one should doubt her or my intentions. Therefore, I, who am honorable and self-controlled, propose to take your daughter as my daughter-in-law, thus affirming her purity. There’s no difference between a daughter-in-law and a daughter; just as a son is part of himself. By this union, her purity will be established. I worry about gossip and false accusations, so I accept your daughter Uttara as my future wife. My son, Abhimanyu, who excels in martial skills and is as beautiful as a god, is the beloved nephew of Vasudeva, the discus holder. He is worthy to be your son-in-law and marry your daughter.'

"Virata said, 'It is only fitting for the noble Dhananjaya, the son of Kunti, who embodies virtue and wisdom, to make this declaration. O son of Pritha, fulfill what you believe needs to be done going forward. Whoever has Arjuna as the father-in-law is sure to have all their wishes fulfilled.' 'Then,' Vaisampayana continued, 'the king declared, and Yudhishthira, Kunti’s son, agreed to the arrangement made with Arjuna. And, O Bharata, the son of Kunti sent invitations to Vasudeva and all his friends and kin, and Virata did likewise. After the thirteenth year had ended, the five Pandavas settled in a town called Upaplavya belonging to Virata. Vibhatsu, the son of Pandu, brought Abhimanyu and Janardana, along with many from the Dasarha lineage in Anarta.

The king of Kashi and Saivya, both loyal to Yudhishthira, arrived with a troop each. Mighty Drupada, along with the valiant sons of Draupadi, the unbeaten Sikhandin, and the invincible Dhrishtadyumna arrived with another troop. The kings who came were not only leaders of troops, but also generous givers to Brahmanas, skilled in the Vedas, courageous, and ready to fight. Seeing them arrive, the virtuous king of the Matsyas welcomed them, hosting their troops and attendants with due respect, and was quite pleased to offer his daughter to Abhimanyu. After the various kings had gathered from different regions, Vasudeva arrived adorned with flowers, along with Halayudha, Kritavarman, son of Hridika, Yuyudhana, son of Satyaki, Anadhristi, Akrura, Samva, and Nisatha. These formidable warriors arrived bringing Abhimanyu and his mother with them.

Indrasena and his companions stayed in Dwaraka for a whole year, bringing with them the splendid chariots of the Pandavas. They arrived with ten thousand elephants, ten thousand chariots, millions of horses, and countless foot soldiers, along with many brave warriors from the Vrishni, Andhaka, and Bhoja clans, all led by the brilliant Vasudeva. Krishna gifted each of the noble sons of Pandu numerous female servants, precious gems, and fine clothing. Soon, the grand wedding celebration began between the Matsya king's family and the Pandavas. Conch shells, cymbals, horns, drums, and other musical instruments provided by the Pandavas filled the palace of Virata with sound. Various deer and clean animals were hunted in large numbers, and an abundance of different wines and fruity drinks were collected plentifully.

Bards and singers, skilled in tales and melodies, served the kings, celebrating their virtues and lineages. The beautiful Matsyas women, led by Sudeshna, adorned with pearl and gemstone earrings, arrived at the place of the wedding. Among these lovely ladies, Krishna stood out for his beauty and renown. They brought the princess Uttara, radiant in her jewelry and resembling the daughter of the mighty Indra. Then Dhananjaya, Kunti's son, took Virata's flawless daughter for his son with Subhadra. Yudhishthira, another son of Kunti, who resembled Indra in stature, also accepted her as a daughter-in-law. After taking her, Pritha's son, with Janardana by his side, oversaw the wedding ceremonies for the illustrious son of Subhadra.

 

इति श्री जयसंहिते  विराटपर्वणि दशमोऽध्यायः॥

 

Virāṭaparva Chapter - 9

Udyōgaparva Introduction

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13