Droṇaparva Chapter -14 (Fourteenth day war – Part-4) – Ghatotkacha killed
द्रोणपर्व - Droṇaparva (चतुर्दश दिवसीय युद्धम् - भाग-४) – घटोत्कच वध:
अध्यायः – 14 ::Chapter-14 (Fourteenth day war – Part-4) – Ghatotkacha killed
No. of Shlokas |
|
सञ्जय उवाच॥ सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः । अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये ॥ 1॥ ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् । परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः ॥ 2॥ अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥ 3॥ अस्मद्विजयकामानां सुहृदामुपकारिणाम् । गन्तास्मि कथमानृण्यं गतानां यमसादनम् ॥ 4॥ द्रोण उवाच॥ दुर्योधन किमेवं मां वाक्षरैरभिकृन्तसि । अजय्यं समरे नित्यं ब्रुवाणं सव्यसाचिनम् ॥ 5॥ एष त्वहमनीकानि प्रविशाम्यरिसूदन । रणाय महते राजंस्त्वया वाक्षल्यपीडितः ॥ 6॥ त्वं च दुर्योधन बलं यदि शक्नोषि धारय । रात्रावपि हि योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः ॥ 7॥ सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च । सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ॥ 8॥ तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः । पृथक्चमूभ्यां संसक्तौ द्रोणमेवाभ्यधावताम् ॥ 9॥ तथैव नकुलो धीमान्सहदेवश्च दुर्जयः । धृष्टद्युम्नः शतानीको विराटश्च सकेकयः ॥ ॥ मत्स्याः शाल्वेयसेनाश्च द्रोणमेव ययुर्युधि ॥ 10॥ ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा । आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः ॥ 11॥ तावन्योन्यं शरैः सङ्ख्ये सञ्छाद्य सुमहारथौ । पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् ॥ 12॥ ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे । सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः ॥ 13॥ कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः । सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ 14॥ धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः । गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् ॥ 15॥ विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः । ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत ॥ 16॥ अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः । नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना ॥ 17॥ वासुदेव उवाच॥ पश्यामि कर्णं कौन्तेय देवराजमिवाहवे । विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् ॥ 18॥ नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनञ्जय । ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् ॥ 19॥ न तु तावदहं मन्ये प्राप्तकालं तवानघ । समागमं महाबाहो सूतपुत्रेण संयुगे ॥ 20॥ घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः । स हि भीमेन बलिना जातः सुरपराक्रमः ॥ 21॥ तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च । अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव ॥ 22॥ पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनी । काल्यमाना यथा गावः पालेन रणमूर्धनि ॥ 23॥ निशीथे सूतपुत्रेण शरवर्षेण पीडिताः । एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः ॥ 24॥ रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः । बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ॥ 25॥ जहि कर्णं महेष्वासं निशीथे मायया रणे । पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः ॥ 26॥ घटोत्कच उवाच॥ अद्य दास्यामि सङ्ग्रामं सूतपुत्राय तं निशि । यं जनाः सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति ॥ 27॥ सञ्जय उवाच॥ एवमुक्त्वा महाबाहुर्हैडिम्बः परवीरहा । अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् ॥ 28॥ तमापतन्तं सङ्क्रुद्धं दीप्तास्यमिव पन्नगम् । अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः ॥ 29॥ |
29 (909) |
Sanjaya said, 'When the king of the Sindhus fell, your son Suyodhana's face was wet with tears, and he was overcome with sorrow. He went to Drona and told him about the massive slaughter of the Kurus, the enemy's victory, and the terrible disaster that had befallen the Dhartarashtras. Duryodhana said, "Another of your students, the unbeatable Arjuna, has killed seven Akshauhinis of soldiers and sent King Jayadratha to the land of Yama. How can I ever repay my debt to those allies who wanted me to win and always worked for my good, but have now died?"' Drona replied, 'Duryodhana, why do you wound me with words? I told you before that Arjuna cannot be defeated in battle. As for me, though your words wound me, I will charge into the enemy ranks and fight fiercely. If you can, go and protect those troops.' Both the Kurus and the Srinjayas are enraged and will fight even at night.' After killing the king of the Sindhus, Arjuna met with Yudhishthira and Satyaki, and then they both advanced towards Drona. Yudhishthira and Bhimasena, each leading a division of the army, quickly moved against Drona. Likewise, the clever Nakula, the invincible Sahadeva, Dhrishtadyumna with his division, Virata, and the king of the Salwas, all advanced against Drona in battle with a large force. Then Karna, the vanquisher of enemy heroes, seeing Dhrishtadyumna in the fray, struck his chest with ten deadly arrows. In that fierce battle, they showered arrows upon each other, piercing each other with sharp shafts drawn to their limit. Again, Karna sent Dhrishtadyumna's driver and four horses to the realm of Yama. He severed his foe's bow with sharp arrows and felled his driver with a broad-headed shaft. The valiant Dhrishtadyumna, without chariot, steeds, or driver, leaped down and seized a mace. Despite Karna's relentless arrows, the Panchala prince slew Karna's four horses. Swiftly retreating, Prishata's son boarded Dhananjaya's chariot. In that battle, Karna slaughtered the fleeing, senseless warriors with powerful weapons. Vasudeva said, 'I see Karna, Kunti's son, a tiger among men, battling like a celestial chief. Only you, Dhananjaya, or the Rakshasa Ghatotkacha, can face him. But, the time is not right for you to fight the Suta's son. Let the mighty Ghatotkacha confront Radha's son. With celestial strength, born of Bhima, he wields celestial and Rakshasa weapons.' Then Krishna turned to Ghatotkacha and said, 'Look, son of Hidimbi, Karna is thrashing the Pandava army on the battlefield, like a shepherd with cattle. The Pandava warriors are struggling against his burning arrows, unable to face that skilled archer and his powerful shots. Rakshasas gain immense strength, power, and courage at night, becoming unmatched warriors. Use your illusions to kill Karna tonight. Dhrishtadyumna and the Parthas will deal with Drona.' Ghatotkacha replied, 'Tonight, I'll wage a battle with the son of Suta so legendary that people will talk about it forever.' With that, Hidimba's son, a destroyer of enemy heroes, charged at Karna in the terrifying fight, scaring your army. The son of Suta, a true tiger, met that enraged warrior with the fiery mouth and hair with a smile. |
|
सञ्जय उवाच॥ स संनिपातस्तुमुलस्तयोरासीद्विशां पते । कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव ॥ 1॥ तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने । प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः ॥ 2॥ ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः । अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः ॥ 3॥ आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः । पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टिशास्तथा ॥ 4॥ तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः । पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ॥ 5॥ तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे । व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ॥ 6॥ तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम् । अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ॥ 7॥ न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् । सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ॥ 8॥ न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् । दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ॥ 9॥ स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् । मायायुद्धेन मायावी सूतपुत्रमयोधयत् ॥ 10॥ सोऽयोधयत्तदा कर्णं मायया लाघवेन च । अलक्ष्यमाणोऽथ दिवि शरजालेषु सम्पतन् ॥ 11॥ भैमसेनिर्महामायो मायया कुरुसत्तम । प्रचकार महामायां मोहयन्निव भारत ॥ 12॥ स स्म कृत्वा विरूपाणि वदनान्यशुभाननः । अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया ॥ 13॥ अतीव तच्चित्रमतीव रूपं; बभूव युद्धं रविभीमसून्वोः । समाकुलं शस्त्रनिपातघोरं; दिवीव राह्वंशुमतोः प्रतप्तम् ॥ 14॥ घटोत्कचो यदा कर्णं न विशेषयते नृप । तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः ॥ 15॥ तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः । सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत ॥ 16॥ ततो मायां विहितामन्तरिक्षे; घोरां भीमां दारुणां राक्षसेन । सम्पश्यामो लोहिताभ्रप्रकाशां; देदीप्यन्तीमग्निशिखामिवोग्राम् ॥ 17॥ ततः शराः प्रापतन्रुक्मपुङ्खाः; शक्त्यः प्रासा मुसलान्यायुधानि । परश्वधास्तैलधौताश्च खड्गाः; प्रदीप्ताग्राः पट्टिशास्तोमराश्च ॥ 18॥ मयूखिनः परिघा लोहबद्धा; गदाश्चित्राः शितधाराश्च शूलाः । गुर्व्यो गदा हेमपट्टावनद्धाः; शतघ्न्यश्च प्रादुरासन्समन्तात् ॥ 19॥ महाशिलाश्चापतंस्तत्र तत्र; सहस्रशः साशनयः सवज्राः । चक्राणि चानेकशतक्षुराणि; प्रादुर्बभूवुर्ज्वलनप्रभाणि ॥ 20॥ तां शक्तिपाषाणपरश्वधानां; प्रासासिवज्राशनिमुद्गराणाम् । वृष्टिं विशालां ज्वलितां पतन्तीं; कर्णः शरौघैर्न शशाक हन्तुम् ॥ 21॥ शराहतानां पततां हयानां; वज्राहतानां पततां गजानाम् । शिलाहतानां च महारथानां; महान्निनादः पततां बभूव ॥ 22॥ सुभीमनानाविधशस्त्रपातै;र्घटोत्कचेनाभिहतं समन्तात् । दौर्योधनं तद्बलमार्तरूप;मावर्तमानं ददृशे भ्रमन्तम् ॥ 23॥ तां राक्षसीं घोरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम् । दृष्ट्वा बलौघांश्च निपात्यमाना;न्महद्भयं तव पुत्रान्विवेश ॥ 24॥ एवं महच्छस्त्रवर्षं सृजन्त;स्ते यातुधाना भुवि घोररूपाः । मायाः सृष्टास्तत्र घटोत्कचेन; नामुञ्चन्वै याचमानं न भीतम् ॥ 25॥ तस्मिन्घोरे कुरुवीरावमर्दे; कालोत्सृष्टे क्षत्रियाणामभावे । ते वै भग्नाः सहसा व्यद्रवन्त; प्राक्रोशन्तः कौरवाः सर्व एव ॥ 26॥ तेनोत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश्चतुरोऽश्वाञ्जघान । ते जानुभिर्जगतीमन्वपद्य;न्गतासवो निर्दशनाक्षिजिह्वाः ॥ 27॥ ततोऽब्रुवन्कुरवः सर्व एव; कर्णं दृष्ट्वा घोररूपां च मायाम् । शक्त्या रक्षो जहि कर्णाद्य तूर्णं; नश्यन्त्येते कुरवो धार्तराष्ट्राः ॥ 28॥ स वै क्रुद्धः सिंह इवात्यमर्षी; नामर्षयत्प्रतिघातं रणे तम् । शक्तिं श्रेष्ठां वैजयन्तीमसह्यां; समाददे तस्य वधं चिकीर्षन् ॥ 29॥ यासौ राजन्निहिता वर्षपूगा;न्वधायाजौ सत्कृता फल्गुनस्य । यां वै प्रादात्सूतपुत्राय शक्रः; शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय ॥ 30॥ तां वै शक्तिं लेलिहानां प्रदीप्तां; पाशैर्युक्तामन्तकस्येव रात्रिम् । मृत्योः स्वसारं ज्वलितामिवोल्कां; वैकर्तनः प्राहिणोद्राक्षसाय ॥ 31॥ तामुत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम् । भीतं रक्षो विप्रदुद्राव राज;न्कृत्वात्मानं विन्ध्यपादप्रमाणम् ॥ 32॥ दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां; नेदुर्भूतान्यन्तरिक्षे नरेन्द्र । ववुर्वातास्तुमुलाश्चापि राज;न्सनिर्घाता चाशानिर्गां जगाम ॥ 33॥ सा तां मायां भस्म कृत्वा ज्वलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य । ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणामन्तराण्याविशन्ती ॥ 34॥ युद्ध्वा चित्रैर्विविधैः शस्त्रपूगै;र्दिव्यैर्वीरो मानुषै राक्षसैश्च । नदन्नादान्विविधान्भैरवांश्च; प्राणानिष्टांस्त्याजितः शक्रशक्त्या ॥ 35॥ इदं चान्यच्चित्रमाश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय । तस्मिन्काले शक्तिनिर्भिन्नमर्मा; बभौ राजन्मेघशैलप्रकाशः ॥ 36॥ ततोऽन्तरिक्षादपतद्गतासुः; स राक्षसेन्द्रो भुवि भिन्नदेहः । अवाक्षिराः स्तब्धगात्रो विजिह्वो; घटोत्कचो महदास्थाय रूपम् ॥ 37॥ स तद्रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात । हतोऽप्येवं तव सैन्येकदेश;मपोथयत्कौरवान्भीषयाणः ॥ 38॥ वासुदेव उवाच॥ शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते । कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय ॥ 39॥ दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः । दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे ॥ 40॥ यदि हि स्यात्सकवचस्तथैव च सकुण्डलः । सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली ॥ 41॥ गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम् । न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ॥ 42॥ त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः । विहीनकवचश्चायं कृतः परपुरञ्जयः ॥ 43॥ उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते । प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः ॥ 44॥ यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना । वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे ॥ 45॥ कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च । तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ॥ 46॥ |
46 (955) |
O king, the clash between Karna and the Rakshasa was terrifying, like a battle between Indra and Samvara. Each, wielding a mighty, loud-thrumming bow, struck and showered the other with powerful arrows. A dense rain of rocks and stones fell from all directions, relentlessly hurled by the Rakshasas, whose strength surged with the midnight hour. Iron wheels, Bhusundis, darts, lances, spears, Sataghnis, and axes rained down incessantly. Witnessing the fierce and terrible battle, all the kings, your sons, and the warriors fled in terror. Only Karna, confident in his weapon's power and filled with noble pride, stood firm. He shattered the illusion conjured by Ghatotkacha with his arrows. Killing all of Ghatotkacha's steeds and smashing his chariot into a hundred pieces, Karna unleashed a torrent of arrows upon him, like a cloudburst. Hardly an inch of Ghatotkacha's body remained unpierced by Karna's shafts. Soon, the Rakshasa resembled a porcupine with its quills raised. He was so completely covered in arrows that we could no longer see his steeds, chariot, banner, or even Ghatotkacha himself. Ghatotkacha, using his power of illusion, countered Karna's celestial weapon with his own, engaging the Suta's son with his illusory abilities. He fought Karna, aided by his illusions, displaying incredible agility. Showers of arrows rained down from an unseen source in the sky. Then Bhimasena's son, with his great illusory prowess, O chief of the Kurus, assumed a terrifying form and began to stun the Kauravas! The valiant Rakshasa, manifesting many fierce and grim heads, began to devour Karna’s celestial weapons. Indeed, the duel between Surya's son and Bhima's son, amidst a dense storm of weapons, was a beautiful, almost unmatched spectacle, like the epic clash of Rahu and Surya in the heavens. When Ghatotkacha, a master of arms, realized he couldn't overcome Karna, he summoned a fierce, powerful weapon. First, the Rakshasa struck down Karna's horses and then his charioteer. Then, achieving this, Hidimba's son vanished. A terrible illusion was conjured by the Rakshasa in the sky. We witnessed a mass of red clouds, like blazing fire. Flashes of lightning burst from the cloud, along with blazing brands! A tremendous roar like thousands of drums resounded. Golden shafts, darts, lances, clubs, battle-axes, oily scimitars, blazing axes, spears, shining spiked maces, iron maces, keen long darts, gold-decked heavy maces, and Sataghnis rained down. Giant rocks and thunderbolts crashed with deafening noise, along with hundreds of wheels and fire-like razors. Karna's arrows failed to quell the blazing storm of darts, lances, and clubs. The cries of slain horses, elephants struck by thunder, and fallen warriors filled the air. Afflicted by Ghatotkacha's terrible rain of arrows, Duryodhana’s army scattered in agony across the field. With cries of woe, that scattered army teetered on the brink of destruction, utterly disheartened. Yet, the nobler commanders stood their ground, refusing to flee. They watched as the demon's dreadful illusion unleashed a terrifying storm of weapons. Seeing their ranks decimated, even the bravest grew afraid. Crushed by fiery darts, spears, maces, and spiked clubs, the Kaurava troops began to fall. The demons rained down long darts, treacle-like projectiles, and iron-clad stakes upon the warriors of your son. Then, Ghatotkacha launched a wheeled Sataghni, instantly killing Karna's four steeds. Lifeless, they collapsed, their vitality extinguished. Seeing the Kauravas scatter, his celestial weapon thwarted by the demon's magic, Karna, composed, pondered his next move. The Kauravas, witnessing Karna and the overwhelming illusion, cried out: 'Karna, strike down the demon swiftly with your (Indra’s) dart, or we are all doomed!'. Burning with fury like an enraged lion, Karna, unable to withstand Ghatotkacha's attacks, seized his ultimate, invincible dart, yearning to destroy him. This was the dart he'd cherished for years to kill a Pandava in battle. Indra himself gave it to Karna in exchange for his earrings. The terrible, blazing weapon, laced with cords, seemed to crave blood—a fierce instrument like the Destroyer's tongue or Death's sister. This dreadful, radiant dart, Vaikartana, was launched at Ghatotkacha. Seeing the deadly weapon in Karna’s hand, the Rakshasa, terrified, tried to flee, growing to the size of a mountain's base. As Karna released the dart, all beings in the sky cried out, violent winds howled, and thunder crashed. The brilliant dart shattered Ghatotkacha's illusion, pierced his chest, and soared into the stars. After battling fiercely with many Rakshasa and human warriors, Ghatotkacha roared terribly and fell lifeless, struck by Indra's dart. Even as he died, pierced through the heart, he shone like a great mountain or storm cloud, a final, astonishing feat for his enemies' ruin. In his terrible form, Bhimasena's son, renowned for his frightful deeds, crashed down, crushing a portion of your army beneath his immense weight. Vasudeva said, 'O Dhananjaya, know that Karna, though his spear was thwarted by Ghatotkacha, is as good as dead in battle. Fortunately, his natural armour was removed. Fortunately, his earrings were also taken. Fortunately, his unfailing dart is now useless, thanks to Ghatotkacha. With his natural armour and earrings, Karna, self-controlled, could've single-handedly defeated the three worlds, gods and all. Indeed, if that great man had his armour and earrings, neither you with Gandiva, nor I with Sudarsana, could've beaten him in battle. For your sake, Indra tricked Karna out of his earrings. Likewise, that conqueror of cities was stripped of his natural armour. Karna, by cutting off and giving his armour and brilliant earrings to Indra, became known as Vaikartana. Karna now seems like a venomous snake charmed into harmlessness, or a fire reduced to embers. From the time Indra gave Karna that dart in exchange for his earrings and celestial armour—the same dart that killed Ghatotkacha—Vrishasena always believed you were marked for death in battle!' |
इति श्री जयसंहिते द्रोणपर्वणि चतुर्दशोऽध्यायः॥
Comments
Post a Comment