Droṇaparva Chapter -12 (Fourteenth day war – Part-2)
द्रोणपर्व - Droṇaparva (चतुर्दश दिवसीय युद्धम् - भाग- २)
अध्यायः – 12 ::Chapter-12 (Fourteenth day war – Part-2)
Shlokas |
No. of Shlokas |
सञ्जय उवाच॥ ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः । परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् ॥ 1॥ त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः । शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा ॥ 2॥ कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः । अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ॥ 3॥ युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् । शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन् ॥ 4॥ ततो रथसहस्रेण महारथशतेन च । द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ॥ 5॥ शरवर्षाणि मुञ्चन्तो विविधानि महारथाः । अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः ॥ 6॥ तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत । दुःशासनो महाराज सात्यक्तिं पर्यवारयत् ॥ 7॥ तत्राद्भुतमपश्याम शैनेयचरितं महत् । यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत ॥ 8॥ अवधीच्च रथानीकं द्विरदानां च तद्बलम् । सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ॥ 9॥ द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः । पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥ 10॥ नापश्यच्छरणं किञ्चिद्धर्मराजो युधिष्ठिरः । चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥ 11॥ तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया । युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ॥ 12॥ सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् । गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ॥ 13॥ अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् । चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः ॥ 14॥ अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ॥ ॥ पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे । शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः ॥ 15॥ तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै । सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनञ्जयः ॥ 16॥ सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् । सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ॥ 17॥ प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे । तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ॥ 18॥ गमनं रोचते मह्यं यत्र यातौ महारथौ ॥ ॥ तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् ॥ 19। भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ॥ यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते ॥ 20। प्रेरितो वासुदेवेन संरब्धेन यशस्विना ॥ नूनमद्य हतः शेते तव भ्राता धनञ्जयः ॥ 21॥ तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः । यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः ॥ 22॥ यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः । स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ॥ 23॥ तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् । स तं महारथं पश्चादनुयातस्तवानुजम् ॥ 24॥ तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् ॥ तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः ॥ 25। स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः । सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ॥ वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते ॥ 26॥ भीमसेन उवाच॥ ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः । तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ॥ 27॥ आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः । समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ॥ 28॥ सञ्जय उवाच॥ एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् । धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः ॥ धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ॥ 29॥ विदितं ते महाबाहो यथा द्रोणो महारथः । ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ॥ 30॥ न च मे गमने कृत्यं तादृक्पार्षत विद्यते । यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ॥ 31॥ एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे । प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः ॥ धर्मराजस्य वचने स्थातव्यमविशङ्कया ॥ 32॥ सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् । एतद्धि सर्वकार्याणां परमं कृत्यमाहवे ॥ 33॥ तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् । ईप्सितेन महाबाहो गच्छ पार्थाविचारयन् ॥34॥ नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन । निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ॥ 35॥ ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः । अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः ॥ 36॥ |
36 (765) |
Sanjaya said, 'At your son’s command, the unrelenting Samsaptakas, rallied to fight fiercely. Three thousand archers, led by Duryodhana, along with Sakas, Kambhojas, Balhikas, Yavanas, Paradas, Kalingas, Tanganas, Amvashtas, Pisachas, Barbaras, and mountaineers, all enraged and armed, charged against Sini’s grandson like insects to a blazing fire. Five hundred more warriors rushed Satyaki, and a massive force of a thousand chariots, a hundred great car-warriors, a thousand elephants, two thousand heroes, and countless foot-soldiers surged against him. Duhsasana, urging them on, cried, 'Slay him!' surrounding Satyaki. Sini's grandson fought alone, fearlessly battling countless foes, slaying the entire chariot force, elephant force, horsemen, and bandit horde. At the different front, in the fierce battle raged, a carnage like the end of the Yuga. Drona roared like a lion, the Panchalas weakened, and the Pandavas fell. King Yudhishthira, unable to find refuge, wondered how it would end. Seeking Savyasachin, Yudhishthira saw neither Pritha’s son nor Madhava. Not seeing the tiger-like Arjuna with his ape-bannered chariot, nor hearing Gandiva's twang, the king grew anxious. Not seeing Satyaki either, the Vrishni car-warrior, Yudhishthira became equally worried.' The noble King Yudhishthira, ever just and strong, worried about public perception and began to consider Satyaki's situation. 'I sent Satyaki, Sini's grandson, a true warrior and comforter of friends, after Arjuna,' he thought. 'My one worry has now doubled. I need news of both Satyaki and Arjuna. Having sent Satyaki after Arjuna, who can I send after Satyaki? Fearing the world's judgment, I must send Bhima, Pritha's son, after the noble Satyaki.' With a sorrowful face and tear-filled eyes, sighing like a dark cobra, the king said to Bhimasena, 'The furious blasts of Krishna's conch, Panchajanya, echo around us. It seems your brother Arjuna may have fallen in battle today. Surely, if Arjuna is slain, Krishna fights on. The Pandavas survive only by relying on Arjuna's strength, to whom we turn in fear as the gods turn to Indra. He sought the ruler of Sindhu, penetrating deep into the enemy lines. Therefore, son of Kunti, go to where Arjuna and the mighty Satyaki are, if you believe it is your duty to obey my command. Remember, I am your eldest brother.'’ "Bhima said, 'That chariot, once carrying Brahma, Ishana, Indra, and Varuna into battle, now carries two Krishnas (Arjuna and Krishna). They need not fear any danger. But I, taking your command to heart, am going. Do not worry. When I meet those tigers, I'll send you news.' Sanjaya said, 'Having spoken, the mighty Bhima prepared to depart, entrusting Yudhishthira repeatedly to Dhrishtadyumna and other allies. Indeed, the powerful Bhimasena addressed Dhrishtadyumna, saying, 'You know, mighty-armed one, how the great warrior Drona is always seeking to capture King Yudhishthira by any means possible. I would never prioritize going to Arjuna and Satyaki over protecting the king. However, King Yudhishthira has commanded me to go, and I cannot disobey. I go to where the ruler of the Sindhus is near death. I must act with complete truthfulness, according to the words of my brother Arjuna and the wise Satyaki. Therefore, fight with resolve and protect Yudhishthira, the son of Pritha, today. Of all tasks, this is your greatest duty in battle.' Addressed by Vrikodara, Dhrishtadyumna replied, 'I will do as you wish. Go, son of Pritha, without any such worries. Unless Drona slays me in the battle, he will never be able to humiliate King Yudhishthira.' |
|
सञ्जय उवाच॥ आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत् ॥ ॥ विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः ॥ 1। सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः । दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः ॥ 2॥ पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत् । तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम् ॥ 3॥ ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव । ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः ॥ 4॥ स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा । भीमः करिष्यते पूजामित्युवाच वृकोदरम् ॥ 5॥ भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् । मामनिर्जित्य समरे शत्रुमध्ये महाबल ॥ 6॥ यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम । अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया ॥ 7॥ अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः । क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ॥ 8॥ तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम् । प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ॥ 9॥ येन वै परमां पूजां कुर्वता मानितो ह्यसि । नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः ॥ 10॥ पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम् । इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ॥ 11॥ अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते । यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह ॥ एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् ॥ 12॥ अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः । द्रोणायावसृजद्राजन्स रथादवपुप्लुवे ॥ 13॥ साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा । प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा ॥ 14॥ भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम् । तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् ॥ 15॥ सात्यकिं चापि सम्प्रेक्ष्य युध्यमानं नरर्षभम् । रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥ 16॥ भीमसेनो महाराज द्रष्टुकामो धनञ्जयम् । अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥ 17॥ सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् । सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥ 18॥ अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् । तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ॥ 19॥ ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह । अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥ 20॥ वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः । पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ॥ 21॥ भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः । अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥ 22॥ विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् । धनञ्जयस्य च रणे जयमाशास्तवान्विभुः ॥ 23॥ तथा तु नर्दमाने वै भीमसेने रणोत्कटे । स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥ 24॥ हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः । दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥ 25॥ न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव । दिष्ट्या जीवति सङ्ग्रामे सव्यसाची धनञ्जयः ॥ 26॥ दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः । दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ ॥ 27॥ तथा तु नर्दमानं तं भीमसेनं महारथम् । तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ॥ 28॥ व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः । कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ॥ चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ॥ 29॥ स छाद्यमानः सहसा कर्णेन दृढधन्विना । धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ॥ 30॥ सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् । वाहांश्च चतुरः सङ्ख्ये व्यसूंश्चक्रे महारथः ॥ 31॥ हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते । स्यन्दनं वृषसेनस्य समारोहन्महारथः ॥ 32॥ |
32 (797) |
Bhima then blew his conch with might, roaring like a lion, and began to twang his bow. Swiftly, the son of the Wind-god unleashed his arrows, scattering the elephant division in every direction. Moving quickly across the field, he then charged towards Drona's division. At this, the teacher halted him, like the steadfast shore against the raging sea. Smiling, Drona struck Bhima in the forehead with an arrow, causing the son of Pandu to shine like the sun's rising rays. The teacher expected Bhima to revere him as Arjuna had done before. Addressing Bhimasena, he said, 'O Bhimasena, you cannot enter the enemy ranks without defeating me, your foe, in battle, O mighty one! Though Krishna and your younger brother have penetrated this host with my consent, you will never succeed as they did.' Hearing the teacher's words, the fearless Bhima, enraged, his eyes burning red, swiftly retorted to Drona, saying, 'O Brahmin, Arjuna did not enter this host by your leave. He is unseen, capable of penetrating even Sakra's command. His reverence was merely for your honour. But know, Drona, I am not compassionate like Arjuna. I am Bhimasena, your enemy. We respect you as our father, teacher, and friend, considering ourselves your sons. Thus, we humble ourselves before you. But your words today suggest that all has changed. If you deem yourself our foe, so be it. As Bhima, I will now act towards you as I would toward any enemy.'' With that, Bhima, wielding a mace like the Destroyer with his death rod, hurled it at Drona, O king. But Drona nimbly leaped from his chariot, saving himself. The mace crushed Drona's chariot—steeds, driver, and banner—into the earth. Then Bhima flattened warriors like a storm fell trees. He ploughed through the Bhoja, the Kambhoja, and countless Mleccha tribes, all skilled fighters. Spotting Satyaki in the fray, Kunti's son, Bhimasena, sped forward, eager to find Dhananjaya. Bursting past your warriors, the Pandava saw the mighty Arjuna locked in combat. Brave Bhima, a tiger among men, watching Arjuna lay waste to the Sindhu ruler, roared like thunder in monsoon season. Those terrifying shouts of the roaring Bhimasena reached both Arjuna and Vasudeva mid-battle, O Kuru's descendant. Hearing Bhima's shout, the heroes roared back with excitement, eager to see Vrikodara. Arjuna and Madhava then charged like roaring bulls. Hearing Bhimasena's roar, and Phalguna's bow, Yudhishthira, son of Dharma, was filled with joy. King Yudhishthira's grief vanished, hearing the sounds of Bhima and Arjuna. And lord Yudhishthira repeatedly wished Dhananjaya success in battle. "As the fierce Bhima roared, the strong-armed Yudhishthira, Dharma's son and a man of virtue, smiled, contemplating his thoughts. 'Bhima,' he said, 'you've delivered my message and obeyed my commands. No one with you as an enemy can win. Fortunately, Dhananjaya, skilled with either hand, lives. Luckily, the unfailing Satyaki is safe. It's good to hear Vasudeva and Dhananjaya roaring.' As Bhimasena roared, Karna, unable to endure it, charged at him, bow stretched. This mighty warrior, eager for battle, showed his strength, halting Bhima like a tree braving a storm. Karna shot arrows in droves. But the son of Pandu, smiling, severed Karna's bowstring despite the onslaught of shafts. He then struck Karna's charioteer down. The mighty Bhima then killed Karna's four steeds. Karna swiftly leapt from his horseless chariot and boarded Vrishasena's.. |
इति श्री जयसंहिते द्रोणपर्वणि द्वादशोऽध्यायः॥
Comments
Post a Comment