Bhīṣmaparva Chapter - 4 (War between Kauravas and Pandavas begins)

 

भीष्मपर्व - Bhīṣmaparva (कुरुपाण्डवसेनयोर्युद्धारम्भः )

अध्यायः – 4  ::Chapter-4 (War between Kauravas and Pandavas begins)

Shlokas

No. of Shlokas

सञ्जय उवाच॥

भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव ।

भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ 1॥

तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः ।

भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥ 2॥

क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः ।

भेरीमृदङ्गमुरजा हयकुञ्जरनिस्वनाः ॥ 3

उभयोः सेनयो राजंस्ततस्तेऽस्मान्समाद्रवन् ।

वयं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ॥ 4॥

भयोः सेनयोस्तीव्रः सैन्यानां स समागमः ।

अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥ 5॥

प्रयुद्धानां प्रभग्नानां पुनरावर्ततामपि ।

नात्र स्वेषां परेषां वा विशेषः समजायत ॥ 6॥

स्वयं शान्तनवो राजन्नभ्यधावद्धनञ्जयम् ।

प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ॥ 7

अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् ।

अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ॥ 8॥

तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ ।

गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ॥

तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि ॥ 9॥

सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् ।

तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् ॥ 10॥

सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् ।

आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ॥ 11॥

अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् ।

ततः कोसलको राजा सौभद्रस्य विशां पते ॥

ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् ॥ 12॥

सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ ।

बृहद्बलं महाराज विव्याध नवभिः शरैः ॥ 13॥

अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः ।

ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ॥

अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः ॥ 14॥

मानिनं समरे दृप्तं कृतवैरं महारथम् ।

भीमसेनस्तव सुतं दुर्योधनमयोधयत् ॥ 15॥

तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ ।

अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ॥ 16॥

तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ ।

विस्मयः सर्वभूतानां समपद्यत भारत ॥ 17॥

दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् ।

अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ॥ 18॥

तस्य माद्रीसुतः केतुं सशरं च शरासनम् ।

चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ॥ 19

अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् ॥

युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् । 20

तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ॥ ॥

तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः । 21

अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ॥

धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत । 22

तस्य द्रोणः सुसङ्क्रुद्धः परासुकरणं दृढम् ॥ ॥

त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् ॥ 23॥

शरं चैव महाघोरं कालदण्डमिवापरम् ।

प्रेषयामास समरे सोऽस्य काये न्यमज्जत ॥ 24॥

अथान्यद्धनुरादाय सायकांश्च चतुर्दश ।

द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ॥

तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुः सुभृशं रणम् ॥ 25॥

बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते ।

अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ॥ 26॥

बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् ।

शरैर्बहुभिरानर्छत्सिंहनादमथानदत् ॥ 27॥

चेदिराजस्तु सङ्क्रुद्धो बाह्लीकं नवभिः शरैः ।

विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ॥ 28॥

राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः ।

अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ॥ 29॥

शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली ।

अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् ॥ 30॥

नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् ।

शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ॥ 31॥

सायकेन सुपीतेन तीक्ष्णेन निशितेन च ।

तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ॥ 32॥

भगदत्तं रणे शूरं विराटो वाहिनीपतिः ।

अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ॥ 33॥

ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः ।

ताडयामास समरे स च तं प्रत्यविध्यत ॥ 34॥

34 (233)

Sanjaya said, "Hearing his brother's words, your son Dussasana led his troops forward, with Bhishma commanding them, while the Pandavas, eager for battle and led by Bhimasena, advanced as well. Then fierce roars and the noise of battle erupted, including the sound of cow-horns, drums, cymbals, and other instruments, from both armies. The clash between the warriors was extremely fierce, with no differences evident as they fought, retreated, or rallied for more combat. Santanu's son took up a fearsome bow, likened to Death's own, and charged, O king, at Dhananjaya. 

In response, Arjuna, filled with energy, grasped the famous bow Gandiva and also charged at Ganga's son. Both fierce warriors among the Kurus were eager to defeat one another. Yet, despite piercing Arjuna in battle, the mighty son of Ganga could not shake his determination. Likewise, O king, the son of Pandu could not disturb Bhishma's resolve in combat. Meanwhile, the strong archer Satyaki rushed against Kritavarman, and their battle was intensely fierce, leaving onlookers spellbound. Both fought vigorously, with Satyaki wounding Kritavarman and Kritavarman retaliating fiercely against Satyaki, each weakening the other with their loud cries. " 

The mighty archer Abhimanyu faced Brihadbala in battle. Soon, though, O king, the ruler of Kosala severed the flag and toppled Subhadra's charioteer. Enraged by his charioteer's defeat, Subhadra's son struck Brihadbala with nine arrows, and with two more, he cut down Brihadbala's flag, wounding one of his chariot's protectors and his charioteer. The two warriors exchanged fierce volleys of arrows. Meanwhile, Bhimasena clashed with your son Duryodhana, the proud and formidable warrior who had wronged the sons of Pandu. Both of these leading Kuru princes are like fierce tigers on the battlefield, showering each other with arrows. Dussasana charged at Nakula, piercing him with many sharp arrows that found their mark. But Nakula, laughing, retaliated by cutting down his opponent’s flag and bow, then hitting him with twenty-five smaller arrows. 

King Yudhishthira confronted the leader of the Madras, who, right before his eyes, broke Yudhishthira's bow in two. Undeterred, the son of Kunti discarded the shattered bow and grabbed a stronger one, able to shoot with greater speed. He then unleashed a flurry of arrows at the Madra king, furiously commanding him to 'halt, halt.' Dhrishtadyumna charged at Drona, who, in a fit of rage, destroyed the strong bow of the noble prince of Panchala, a bow notorious for taking lives. Simultaneously, he launched a dreadful arrow, akin to a second Death itself, which pierced the prince's body. Then, picking up another bow and fourteen arrows, Drupada's son hit Drona in their fierce fight. Fuelled by anger, they clashed fiercely. 

The mighty warrior Dhrishtaketu, filled with rage, charged against Balhika, who was the very personification of fury. Balhika let out a fearsome roar, steadily weakening the furious Dhrishtaketu with countless arrows. However, the Chedi king, extremely provoked, quickly shot Balhika with nine arrows. Like two enraged elephants, they roared at each other repeatedly, both in a state of intense anger. They faced each other with great fury, resembling the planets Mars and Venus. Ghatotkacha, known for his cruel deeds, confronted the fierce Rakshasa Alambusha, much like Indra battling Vala.

The powerful Sikhandin charged at Drona's son, Aswatthaman, who retaliated by piercing the angry Sikhandin with a sharp arrow, causing him to shudder. Sikhandin then struck back at Drona’s son with a well-crafted arrow. The two exchanged arrows in their encounter. Meanwhile, in battle with the valiant Bhagadatta, Virata, commanding a large division, charged recklessly, and their fight began. Drupada, the enemy punisher, filled with anger, rushed toward Jayadratha, the ruler of the Sindhus, eagerly anticipating the fight.

सञ्जय उवाच॥

प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः ।

बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् ॥ 1

अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान् ।

शिरांस्याददिरे वीरा रथिनामश्वसादिनः ॥ 2॥

पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः ।

साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ॥ 3॥

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे ।

वर्तमाने महारौद्रे महावीरवरक्षये ॥ 4॥

दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः ।

भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ॥ 5॥

एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ ।

पाण्डवानामनीकानि विजगाहे महारथः ॥ 6॥

चेदिकाशिकरूषेषु पाञ्चालेषु च भारत ।

भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत ॥ 7॥

शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान् ।

निचकर्त महावेगैर्भल्लैः संनतपर्वभिः ॥ 8॥

अभिमन्युः सुसङ्क्रुद्धः पिशङ्गैस्तुरगोत्तमैः ।

संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ॥ 9॥

स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा ।

भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह ॥ 10॥

स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा ।

भीष्मेण युयुधे वीरस्तस्य चानुचरैः सह ॥ 11

तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः ।

विव्याध समरे तूर्णमार्जुनिं परवीरहा ॥ 12॥

ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः ।

सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ॥ 13॥

ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः ।

चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ॥ 14॥

विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः ।

भीमश्च केकयाश्चैव सात्यकिश्च विशां पते ॥ 15॥

जवेनापततां तेषां भीष्मः शान्तनवो रणे ।

पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः ॥ 16॥

पूर्णायतविसृष्टेन क्षुरेण निशितेन च ।

ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ॥ 17॥

प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना ।

अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ॥ 18॥

तस्य वारणराजस्य जवेनापततो रथी ।

शल्यो निवारयामास वेगमप्रतिमं रणे ॥ 19॥

तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः ।

पदा युगमधिष्ठाय जघान चतुरो हयान् ॥ 20॥

स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् ।

उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ॥ 21॥

तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः ।

स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः ॥ 22॥

उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम् ।

कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥

शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ॥ 23

स विस्फार्य महच्चापं कार्तस्वरविभूषितम् ।

अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं बली ॥ 24॥

तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम् ।

तावकानां रथाः सप्त समन्तात्पर्यवारयन् ॥

मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ 25

ततो भीष्मो महाबाहुर्विनद्य जलदो यथा ।

तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ॥ 26॥

तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम् ।

सन्त्रस्ता पाण्डवी सेना वातवेगहतेव नौः ॥ 27॥

तत्रार्जुनः सन्त्वरितः शङ्खस्यासीत्पुरःसरः ।

भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ॥ 28॥

हाहाकारो महानासीद्योधानां युधि युध्यताम् ।

तेजस्तेजसि सम्पृक्तमित्येवं विस्मयं ययुः ॥ 29॥

अथ शल्यो गदापाणिरवतीर्य महारथात् ।

शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ॥ 30॥

स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः ।

बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत ॥ 31॥

उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् ।

अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ॥ 32॥

प्रियं सम्बन्धिनं राजञ्शरानवकिरन्बहून् ॥

अतिष्ठत रणे भीष्मो विधूम इव पावकः ॥ 33॥

मध्यंदिने यथादित्यं तपन्तमिव तेजसा ।

न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ॥ 34॥

वीक्षां चक्रुः समन्तात्ते पाण्डवा भयपीडिताः ।

त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ॥ 35॥

हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते ।

हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ॥ 36॥

ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः ।

मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ 37॥

शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः ।

जघान पाण्डवरथानादिश्यादिश्य भारत ॥ 38॥

ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः ।

प्राप्ते चास्तं दिनकरे न प्राज्ञायत किञ्चन ॥ 39॥

भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे ।

अवहारमकुर्वन्त सैन्यानां भरतर्षभ ॥ 40॥

40 (273)

Sanjaya spoke, - "Mighty elephants with broken trunks clashed against one another, furiously using their tusks to tear at each other. Bold horsemen on swift steeds leaped high, severing the heads of charioteers from their vehicles. Enraged male elephants, overflowing with energy, wreaked havoc, trampling horses and their riders with their trunks and legs. As the morning passed on that dreadful day, in a battle so fierce it claimed the lives of many warriors, Durmukha, Kritavarman, Kripa, Salya, and Vivinsati, driven by your son, gathered around Bhishma to safeguard him. Shielded by these five powerful charioteers, that great warrior made his way through the Pandavas’ ranks. 

The Flag of palmyra of Bhishma’s chariot was seen moving consistently through the Chedis, Kasis, Karushas, and Panchalas. With swift, straight arrows, he beheaded foes and took down their chariots and banners. Then, filled with rage, Abhimanyu, driving a team of fine, tawny steeds, charged towards Bhishma's chariot. With his banner, adorned in gold like a Karnikara tree, he approached Bhishma and his protectors. He struck at the palmyra flag with a sharp arrow, engaging in battle with Bhishma and his defenders. Bhishma, fierce and lethal, quickly shot nine arrows at Arjuna’s son during their clash. In return, that valiant archer, known for his infallible shots, severed Bhishma's flag with nine arrows in the heat of battle." 

Then, ten skilled archers and great charioteers of the Pandavas quickly drove their chariots to defend Subhadra's son. Among them were Virata and his son, Dhrishtadyumna from the Prishata clan, Bhima, the five Kekaya brothers, and Satyaki, O king. Also, Uttara, Virata's son, charged on an elephant with its trunk raised, aiming for the Madra king. However, Salya managed to halt the fierce charge of that excellent elephant. In a fit of rage, the elephant placed its foot on the yoke of Salya's chariot, crushing his four swift steeds. With his horses down, the Madra king threw a deadly iron dart, sharp like a snake, intending to kill Uttara on the spot. 

Upon seeing his brother Uttara slain and Salya joined by Kritavarman, Sweta, Virata's son, ignited with fury, like a fire fuelled with ghee. The fierce warrior drew back his massive bow, akin to Indra's own, and surged toward Salya, determined to end him. Surrounded by a strong array of chariots, he pressed toward Salya's chariot, unleashing a storm of arrows. Noticing his rush with the strength of a raging elephant, seven of your charioteers encircled him, eager to shield the Madra king, who seemed to be on the brink of death. 

Then the mighty Bhishma, roaring like thunderclouds, took up a six-cubit bow and charged at Shankha in battle. Seeing that formidable charioteer and archer charge, the Pandava army trembled like a boat in a fierce storm. Quickly, Arjuna stepped in front of Sankha, determined to protect him from Bhishma. Then the clash began between Bhishma and Arjuna, and cries of woe filled the air as warriors fought. One force seemed to blend into another, leaving everyone in awe. Then Salya, wielding a mace, jumped from his grand chariot and killed Shankha’s four horses. Deprived of his steeds, Shankha leaped down, grabbed a sword, and mounted Arjuna's chariot, feeling secure again. Countless arrows rained down from Bhishma’s chariot, covering the sky and the earth. The fierce Bhishma slaughtered the Panchalas, the Matsyas, the Kekayas, and the Prabhadrakas with his arrows. Soon, abandoning Arjuna, who could draw his bow with either hand, Bhishma charged at Drupada, the king of the Panchalas, surrounded by his army and covered him with a hail of arrows. Like a forest burning after winter, Drupada’s troops were seen to be devastated. 

Bhishma stood in battle like a fierce, smokeless fire, or like the blazing sun at noon, scorching everything around him. The warriors of the Pandavas couldn’t bear to even look at him. Filled with fear, the Pandava army glanced around, feeling helpless and exposed, much like a herd of cattle shivering in the cold. Suffering heavy losses or retreating in despair, loud cries of grief echoed among the Pandava ranks. Then, Bhishma, son of Santanu, drew his bow tightly and rained down arrows that struck like deadly poison. He unleashed a continuous storm of arrows in every direction, wantonly slaying the Pandava charioteers, calling out their names before he shot. As the fighting wore on and the Pandava forces were defeated across the field, the sun set, casting darkness over the scene. Finally, seeing Bhishma, the pride of Bharata's lineage, standing resolutely in battle, the Parthas withdrew their forces to rest for the night.

 

इति श्री जयसंहिते  भीष्मपर्वणि चतुर्थोऽद्यायः॥

 

Bhīṣmaparva Chapter- 3

Bhīṣmaparva Chapter- 5

 

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13