ādiparva - Chapter-30

  

आदिपर्व - ādiparva

अध्यायः – 30 ::Chapter- 30 

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

ततो राज्ञां चरैराप्तैश्चारः समुपनीयत ।

पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा ॥ 1॥

येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना ।

सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥ 2॥

धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् ।

कर्मणा सुनृशंसेन पुरोचनकृतेन वै ॥ 3॥

विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् ।

व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥ 4॥

ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते ।

उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ॥ 5॥

वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् ।

अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥ 6॥

मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया ।

दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥ 7॥

अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु ।

आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥ 8॥

अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् ।

सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च ॥ 9॥

धृतराष्ट्र उवाच॥

यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम ।

सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता ॥ 10॥

तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः ।

धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥ 11॥

वैशम्पायन उवाच॥

तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः ।

धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥ 12॥

कर्ण उवाच॥

पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया ।

निग्रहीतुं यदा वीर शकिता न तदा त्वया ॥13॥

इहैव वर्तमानास्ते समीपे तव पार्थिव ।

अजातपक्षाः शिशवः शकिता नैव बाधितुम् ॥14॥

जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते ।

नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत ॥15

विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते ।

स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ॥ 16॥

ते बलेन वयं राजन्महता चतुरङ्गिणा ।

प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ॥ 17॥

भीष्म उवाच॥

न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन ।

यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥ 18॥

गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः ।

यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥ 19॥

यथा च मम राज्ञश्च तथा दुर्योधनस्य ते ।

तथा कुरूणां सर्वेषामन्येषामपि भारत ॥ 20॥

एवं गते विग्रहं तैर्न रोचये; सन्धाय वीरैर्दीयतामद्य भूमिः ।

तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम् ॥ 21॥

दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि ।

मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥ 22॥

यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः ।

कुत एव तवापीदं भारतस्य च कस्यचित् ॥ 23॥

अधर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ ।

तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥ 24॥

मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् ।

एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥ 25॥

अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति ।

तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥ 26

द्रोण उवाच॥

मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप ।

धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ॥ 27॥

ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः ।

संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥ 28॥

प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः ।

बहुलं रत्नमादाय तेषामर्थाय भारत ॥ 29॥

ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया ।

प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ॥ 30॥

विदुर उवाच॥

राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः ।

न त्वशुश्रूषमाणेषु वाक्यं सम्प्रतितिष्ठति ॥ 31॥

हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः ।

भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ॥ 32॥

तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् ।

तच्च राधासुतः कर्णो मन्यते न हितं तव ॥ 33॥

द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा ।

तस्य सङ्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥ 34॥

बलवन्तश्च दाशार्हा बहवश्च विशां पते ।

यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः ॥ 35॥

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।

अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥ 36॥

36 (2025)

Vaisampayana said, 'News reached all the kings attending Draupadi's swayamvara through trustworthy messengers that the beautiful Draupadi had married the sons of Pandu. They also learned that the remarkable hero who had strung the bow and hit the target was none other than Arjuna, the greatest of warriors and master of the bow and arrow. Remembering the cruel plot devised by Purochana, they exclaimed, 'Shame on Bhishma, shame on Dhritarashtra of the Kuru clan!' 

Then Vidura, upon hearing that Draupadi had been won by the Pandavas and that the sons of Dhritarashtra returned to Hastinapura in disgrace, filled with joy approached Dhritarashtra, saying, 'The Kurus have good fortune!' Hearing Vidura’s words, the son of Vichitravirya, puzzled, joyfully exclaimed, 'What good fortune, Vidura! What good fortune!' In his blindness, the king mistakenly thought that his eldest son Duryodhana was chosen by Drupada's daughter. He immediately ordered beautiful ornaments for Draupadi and commanded that both she and his son Duryodhana be grandly brought to Hastinapura. At this moment, Vidura revealed to the king that Draupadi had selected the Pandavas as her husbands, and that those heroes were all alive and received with honour by King Drupada.

Upon hearing Vidura's words, Dhritarashtra replied, 'These children are as dear to me as they were to Pandu—actually, even more so! Listen to why my love for them has grown: the brave sons of Pandu are thriving and secure. They've gathered many friends, and their allies and relatives are all strong. Then, King Dhritarashtra summoned his esteemed ministers for counsel.' 

Karna said, 'O Duryodhana, you heir of the Kuru lineage, no trick will work against the Pandavas. Despite your clever schemes in the past, you've never succeeded in defeating them. They were living close by when they were still young and weak, but you couldn’t harm them then. Now they've grown strong and are more distant. O prince, your cunning won't harm the sons of Kunti anymore. Virtue in battle is held in high regard among the Kshatriyas. So let us, brave monarch, march our formidable army, with its diverse forces, swiftly against Drupada and bring back the Pandavas.' 

Bhishma replied, 'O Dhritarashtra, I can never support a dispute with the Pandavas. To me, you are much like Pandu was, and the sons of Gandhari are as dear to me as Kunti's sons. I should protect them just as I would your sons, O Dhritarashtra! The Pandavas are as close to me as your son Duryodhana or any other member of the Kuru family. Given this, I cannot endorse a conflict with them. Instead, let us peacefully settle a treaty; grant them half of the land. Without doubt, this is their rightful inheritance as part of the Kuru lineage. O Duryodhana, just as you view this kingdom as your birthright, the Pandavas see it as theirs too. If the renowned sons of Pandu do not receive the kingdom, then it cannot rightfully belong to you or any other descendant of Bharata. If you believe you have a legal claim to this kingdom, then certainly, the Pandavas can be seen as having a legitimate claim before you. Therefore, quietly grant them half of the kingdom; this would be beneficial for all. If you choose otherwise, it will lead to disaster for everyone. 

Drona added, 'O king Dhritarashtra, it is known that friends gathered for advice should always speak what is just, true, and honourable. I agree completely with the esteemed Bhishma. Let a portion of the kingdom be given to the Pandavas. This is the right course. Send, O Bharata, a messenger to Drupada without delay, one who can deliver good news and bring along a substantial gift for the Pandavas. Upon their arrival in Hastinapura, welcome them warmly and install them on their rightful throne, as the people desire.'. 

Vidura said, 'O king, your friends are clearly trying to support you. However, since you refuse to hear them, their advice hardly reaches you. What Bhishma, the son of Santanu and leader of the Kuru clan, has advised is very wise and benefits you, yet you ignore it. The teacher Drona has offered considerable wisdom for your benefit, but Karna, the son of Radha, dismisses it altogether. We have fought against King Drupada before; if we can win him over as an ally, it will make us stronger. O king, the Dasarhas are vast in number and power. Wherever Krishna is, they will be there too, and with Krishna comes victory!'

धृतराष्ट्र उवाच॥

भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः ।

हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥ 1॥

यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः ।

तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥ 2॥

यथैव मम पुत्राणामिदं राज्यं विधीयते ।

तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ॥ 3॥

क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् ।

तया च देवरूपिण्या कृष्णया सह भारत ॥ 4॥

दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा ।

दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥ 5॥

दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः ।

दिष्ट्या मम परं दुःखमपनीतं महाद्युते ॥ 6॥

वैशम्पायन उवाच॥

ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् ।

सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥ 7॥

तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः ।

द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ॥ 8॥

स चापि प्रतिजग्राह धर्मेण विदुरं ततः ।

चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ॥ 9॥

ददर्श पाण्डवांस्तत्र वासुदेवं च भारत ।

स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ॥ 10॥

तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् ।

वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः ॥ 11॥

पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् ।

प्रददौ चापि रत्नानि विविधानि वसूनि च ॥ 12॥

पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते ।

द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥ 13॥

प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः ।

द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ॥ 14॥

राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम ।

धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ॥ 15॥

अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः ।

प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप ॥ 16॥

तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः ।

कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ॥ 17॥

भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव ।

समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥ 18॥

धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान् ।

कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः ॥ 19॥

न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता ।

यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह ॥ 20॥

एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् ।

द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् ॥ 21॥

विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः ।

उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ॥ 22॥

कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः ।

द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ॥ 23॥

स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् ।

गमनं सहदाराणामेतदागमनं मम ॥ 24॥

विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु ।

ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ॥

आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥ 25॥

25 (2050)

Vaisampayana said, 'After hearing all these different speeches, Dhritarashtra spoke: The wise Bhishma, the son of Santanu, the esteemed sage Drona, and you as well (O Vidura) have all spoken the truth and what is best for me. Indeed, just as those great warriors, the heroic sons of Kunti, are the children of Pandu, they are undoubtedly my children by the law. And as my sons have a right to this kingdom, so too do the sons of Pandu rightfully claim it. 

Therefore, hurry and bring the Pandavas along with their mother, treating them with kindness. O you of Bharata's line, also bring Krishna, the divine one, with them. By sheer fortune, the sons of Pritha are alive; and by mere luck, those fierce warriors have won the hand of Drupada's daughter. It is thanks to fortune that our strength has grown, and it is by luck that Purochana has met his end. O you of great radiance, it is luck that has relieved my deep sorrow!'' 

Vaisampayana continued, 'Then Vidura, following Dhritarashtra's command, went to Yajnasena and the Pandavas. He brought with him many jewels and various treasures for Draupadi, the Pandavas, and Yajnasena. Upon reaching Drupada's home, Vidura, knowledgeable in morality and sciences, greeted the king properly and waited for his acknowledgment. Drupada welcomed Vidura appropriately, and they both inquired about each other's well-being. Vidura then saw the Pandavas and Vasudeva, and with affection, he embraced them and asked how they were doing. The Pandavas, along with Vasudeva, respectfully honored Vidura, who was wise beyond measure. However, in Dhritarashtra's name, Vidura earnestly asked about their health with deep concern. He then presented the gems and various treasures sent by the Kauravas to the Pandavas, Kunti, Draupadi, as well as Drupada and his sons.' 

With great wisdom and humility, Vidura addressed King Drupada in front of the Pandavas and Keshava, saying: 'O king, alongside your ministers and sons, please hear my words. King Dhritarashtra, filled with joy, has often inquired about your well-being, and he is very pleased with our alliance. Wise Bhishma, son of Santanu, along with all the Kurus, has shown concern for your health in every way. Drona, your dear friend and a man of great insight, also mentally embraces you and asks about your happiness. 

O king of Panchala, the alliance with you has brought immense joy to Dhritarashtra and the Kurus; they feel more fortunate than if they gained a new kingdom. Given this, I urge you to allow the Pandavas to return to their ancestral lands. The Kurus are eager to see the sons of Pandu, who have been away for so long. They, along with Pritha, must be longing to see their city again. All the Kuru women, the citizens, and our subjects are excited to see Krishna, the princess of Panchala. Therefore, my recommendation is that you promptly grant the Pandavas permission to go with their wife. Once they have your blessing, I will send swift messengers to inform Dhritarashtra. Then, O king, the Pandavas will set out with Kunti and Krishna.'.

द्रुपद उवाच॥

एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् ।

ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते विभो ॥ 1॥

गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् ।

न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥ 2॥

यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः ।

भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥ 3॥

रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः ।

एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥ 4॥

युधिष्ठिर उवाच॥

परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः ।

यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् ॥ 5॥

वैशम्पायन उवाच॥

ततोऽब्रवीद्वासुदेवो गमनं मम रोचते ।

यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥ 6॥

द्रुपद उवाच॥

यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः ।

प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥ 7॥

यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् ।

तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥ 8॥

न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः ।

यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥ 9॥

वैशम्पायन उवाच॥

ततस्ते समनुज्ञाता द्रुपदेन महात्मना ।

पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ॥ 10॥

आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् ।

सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ॥ 11॥

11 (2061)

Vaisampayana said, 'After hearing Vidura's words, Drupada replied, 'You are right, wise Vidura. This alliance has made me very happy. It's fitting for these noble princes to return to their ancestral home. However, I cannot be the one to suggest it. If the brave Yudhishthira, Bhima, and Arjuna, along with the twin brothers, wish to go, and if Balarama and Krishna, who understand all moral principles, agree, then let the Pandavas proceed. For these powerful figures, Rama and Krishna, always act in favour of the sons of Pandu.' Upon hearing this, Yudhishthira said, 'O King, we are now with our younger brothers dependent on you. We will gladly follow your command.' Vaisampayana continued, 'Then Vasudeva said, 'I believe the Pandavas should go, but we should respect King Drupada's judgment, as he is well-versed in moral matters.'' 

Drupada then said, 'I truly agree with this leading man’s thoughts, considering the situation. For the noble sons of Pandu are to me what they are, without a doubt, to Vasudeva. Kunti's son Yudhishthira himself does not seek the welfare of the Pandavas as fervently as, Kesava, that great man among men.' Vaisampayana continued, 'At the command of the great Drupada, the Pandavas, along with Krishna and Vidura, travelled towards Hastinapura, stopping at various places along the way for enjoyment and leisure.'

 

इति श्री जयसंहिते आदिपर्वणि त्रिंशोऽध्यायः॥

  

Ādiparva Chapter- 29

Ādiparva Chapter- 31

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13