Droṇaparva Chapter -10 (Thirteenth day war – Part-4) – Arjuna vows to kill Jayadratha

 

द्रोणपर्व - Droṇaparva (त्रयोदश दिवसीय युद्धम् - भाग-) - अर्जुनेन जयद्रथवधप्रतिज्ञा॥ 

अध्यायः – 10  ::Chapter-10 (Thirteenth day war – Part-4)Arjuna vows to kill Jayadratha

Shlokas

No. of Shlokas

सञ्जय उवाच॥

तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये ।

आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते ॥ 1॥

व्यपयातेषु सैन्येषु वासाय भरतर्षभ ।

हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ॥ 2॥

प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् ।

गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत ॥ 3॥

किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव ।

स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत ॥ 4॥

अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति ।

भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् ॥ 5॥

बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः ।

अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ॥ 6॥

वासुदेव उवाच॥

व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति ।

मा शुचः किञ्चिदेवान्यत्तत्रानिष्टं भविष्यति ॥ 7॥

सञ्जय उवाच॥

ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने ।

कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ॥ 8॥

ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् ।

वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ॥ 9॥

ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा ।

बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः ॥ 10॥

नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन ।

मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह ॥

वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह ॥ 11

मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च ।

स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ॥ 12॥

योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः ।

कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ॥ 13॥

अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव ।

दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः ।

अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥ 14॥

मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते ।

न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥ 15॥

मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः ।

न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे ॥ 16॥

न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः ।

कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ॥ 17॥

भित्त्वानीकं महेष्वासः परेषां बहुशो युधि ।

कच्चिन्न निहतः शेते सौभद्रः परवीरहा ॥ 18॥

निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् ।

मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् ॥ 19॥

सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् ।

क्षत्रियाणां विशेषेण येषां युद्धेन जीविका ॥ 20॥

एषा वै युध्यमानानां शूराणामनिवर्तिनाम् ।

विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर ॥ 21॥

ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम् ।

गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ॥ 22॥

एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा ।

ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् ॥ 23॥

स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः ।

अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ॥ 24॥

सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया ।

सङ्ग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः ॥ 25॥

कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् ।

सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः ॥ 26॥

26 (615)

Sanjaya said, 'As that dreadful day, heavy with the slaughter of beings, came to an end, and the sun dipped below the horizon, a beautiful twilight settled. The armies, O bull of Bharata's lineage, from both sides withdrew to their camps. Then Jishnu, he of the ape banner, having vanquished countless Samsaptakas with his divine weapons, made his way toward his tent on his victorious chariot. And as he proceeded, he asked Govinda, his voice trembling with tears: "Why does fear grip my heart, O Kesava, and why does my voice falter? Ill omens confront me, and my strength wanes. Thoughts of ruin fill my mind relentlessly. On every side, ominous signs terrify me. These omens and portents, appearing everywhere, foreshadow utter disaster. Is all well with my revered elder, the king, and all his allies?"'

Vasudeva replied, 'Clearly, all is well with your brother and his companions. Do not despair; some minor misfortune will occur elsewhere.'' 

'Sanjaya continued, 'After honouring the twilight, those two heroes, Krishna and Arjuna, got into their chariot, discussing the day's devastating battle. Having accomplished extraordinary feats, Vasudeva and Arjuna finally arrived at the Pandava camp. Vibhatsu, seeing the cheerless and chaotic camp, asked Krishna with a heavy heart, 'Janardana, why are there no celebratory trumpets today, no drums, no conch shells? The sweet Veena is silent, and there's no clapping. Our bards aren't singing praises among the troops. Warriors hang their heads low and don't share their achievements with me as before. Madhava, are my brothers alright? Seeing our men so sorrowful, I'm uneasy. Where is Subhadra’s son?' Not seeing Subhadra’s son, Arjuna asked, 'You all look pale. I don't see Abhimanyu, and he hasn't come to congratulate me. I heard Drona formed the circular array today. Only Abhimanyu could break it, but I didn't teach him how to exit. Did you send him in? Did Subhadra's mighty son, after piercing through countless enemy warriors, finally fall in battle?' 

Then Vasudeva, comforting Partha, who was stricken with grief for his son, deeply anxious, his eyes filled with tears, and utterly consumed by sorrow over his child's death, said to him, 'Don't give in to despair so easily. This is the path of all valiant, unwavering heroes, especially Kshatriyas, whose calling is battle. O wisest of men, this is the very destiny prescribed by our scriptures for steadfast warriors in combat. Death is inevitable for heroes who do not retreat. Without a doubt, Abhimanyu has ascended to the realms reserved for the virtuous.'

Thus consoled by Krishna, the doer of wonders, Partha spoke to his brothers, his voice thick with sorrow: 'O rulers of the earth, I long to hear how the mighty-armed Abhimanyu, that hero with large, lotus-petal eyes, fought. You will see me obliterate the enemy, with their elephants, chariots, and steeds. I will annihilate those who murdered my son, along with all their followers and kin. You are all skilled in arms, all armed with weapons, so how could Subhadra's son be slain, even if he were battling the wielder of the thunderbolt himself?'

युधिष्ठिर उवाच॥

त्वयि याते महाबाहो संशप्तकबलं प्रति ।

प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ॥ 1॥

व्याढानीकं वयं द्रोणं वरयामः स्म सर्वशः ।

प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ॥ 2॥

स वार्यमाणो रथिभी रक्षितेन मया तथा ।

अस्मानपि जघानाशु पीडयन्निशितैः शरैः ॥ 3॥

ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः ।

प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ॥ 4॥

वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् ।

उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो ॥ 5॥

स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् ।

असह्यमपि तं भारं वोढुमेवोपचक्रमे ॥ 6॥

स तवास्त्रोपदेशेन वीर्येण च समन्वितः ।

प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ॥ 7॥

तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे ।

प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ॥ 8॥

ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः ।

दिव्यमस्त्रमुदीरयन् सर्वान्नः समवारयत् ॥ 9॥

ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः ।

कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ॥ 10॥

परिवार्य तु तैः सर्वैर्युधि बालो महारथैः ।

यतमानः परं शक्त्या बहुभिर्विरथीकृतः ॥ 11॥

ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् ।

संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् ॥ 12॥

प्रतिलभ्य ततः सञ्ज्ञां वासविः क्रोधमूर्छितः ।

कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ॥ 13॥

पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् ।

उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ॥ 14॥

सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् ।

न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति ॥ 15॥

न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् ।

भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ॥ 16॥

धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् ।

पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ॥ 17॥

रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन ।

अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः ॥ 18॥

यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः ।

मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् ॥ 19॥

इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत ।

यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति ॥

इहैव सम्प्रवेष्टाहं ज्वलितं जातवेदसम् ॥ 20॥

एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् ।

तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् ॥ 21॥

अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः ।

प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं धनञ्जयः ॥ 22॥

22 (637)

" Yudhishthira said, 'O mighty-armed one, after you went towards the Samsaptakas' army, Drona fiercely tried to capture me. But we resisted Drona's advance on all fronts. In that battle, we countered his attack by deploying our chariot-divisions. Drona, held back by many warriors and my own strong defence, still struck us with great force, his sharp arrows causing us great pain. Afflicted by his assault, we could scarcely look upon his army, let alone fight it. Then, we all turned to Abhimanyu—as brave as you, O Arjuna—and asked him to break Drona’s Chakra Vyuha! Hearing our plea, that valiant hero, like a noble steed, took on that heavy burden, though it was almost too much to bear. Empowered by your energy and the weapon skills he learned from you, that child entered the formation like Garuda diving into the ocean. As for us, we followed that hero, Subhadra’s son, eager to break into the Dhritarashtra army along the path Abhimanyu had forged.' 

Then, my lord, that pathetic king of the Sindhus, Jayadratha, used POWERFUL weapons to halt us all! Drona, Kripa, Karna, Drona's son, the king of Kosala, and Kritavarman—these six surrounded Subhadra's son in their chariots. Overwhelming the boy despite his fierce resistance, they destroyed his chariot. With a stroke of luck, Dussasana's son, narrowly escaping himself, managed to bring about Abhimanyu's demise. 

Arjuna, hearing Yudhisthira's account, trembled with feverish rage, sighing repeatedly. Clenching his fists, gasping for air, with tear-filled eyes and a frantic gaze, he declared, 'I swear truly that tomorrow I will kill Jayadratha! If he doesn't flee from the Dhritarashtras out of fear, or beg for our protection, or Krishna's, or yours, O king, I will surely slay him! That wretch, forgetting our friendship and pleasing Dhritarashtra's son, caused the child's death! Tomorrow, he dies! Whoever dares to face me in battle tomorrow to protect him—be it Drona or Kripa, O king—I will bury them beneath my arrows! If I fail to achieve this in tomorrow's battle, may I never reach the realm of the righteous, you greatest of heroes!'

"Now, hear another vow! If the sun sets tomorrow without me killing that villain, I will throw myself into the flames right here!" With that, Arjuna began to draw Gandiva, using all his strength. The sound of the bow, louder than Arjuna's voice, reached the sky. Once Arjuna made this oath, Janardana, burning with anger, blew his conch, Panchajanya. Phalguna then blew Devadatta.

सञ्जय उवाच॥

श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् ।

चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः ॥ 1॥

शोकसंमूढहृदयो दुःखेनाभिहतो भृशम् ।

मज्जमान इवागाधे विपुले शोकसागरे ॥ 2॥

जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु ।

स तेषां नरदेवानां सकाशे परिदेवयन् ॥ 3॥

अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत् ।

योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ॥ 4॥

स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् ।

तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया ॥ 5॥

अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः ।

पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम् ॥ 6॥

द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः ।

दुःशासनादयः शक्तास्त्रातुमप्यन्तकाद्रितम् ॥ 7॥

किमङ्ग पुनरेकेन फल्गुनेन जिघांसता ।

न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः ॥ 8॥

तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः ।

अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ॥ 9॥

एवं विलपमानं तं भयाद्व्याकुलचेतसम् ।

आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ॥ 10॥

न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ ।

मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ॥ 11॥

अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः ।

भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ॥ 12॥

पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः ।

सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखः सहः ॥ 13॥

दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः ।

विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः ॥ 14॥

त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः ।

स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव ॥ 15॥

अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे ।

यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् ॥ 16॥

द्रोण उवाच॥

न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन ।

अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ॥ 17॥

न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि ।

व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति ॥ 18॥

तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय ।

पितृपैतामहं मार्गमनुयाहि नराधिप ॥ 19॥

पर्यायेण वयं सर्वे कालेन बलिना हताः ।

परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः ॥ 20॥

सञ्जय उवाच॥

एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः ।

अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ॥ 21॥

21 (658)

Sanjaya said, 'When Duryodhana’s spies reported the loud uproar of the victory-seeking Pandavas, Jayadratha, grief-stricken and with a heart reeling in distress like a man drowning in a bottomless ocean, slowly rose. After a long reflection, he went to the assembly of kings. Before those god-like men, Jayadratha, fearing Arjuna and covered in shame, said, "That wicked Indra-begotten son of Pandu, intends to send me to my death! I'd rather return home to save my life! Or, noble Kshatriyas, protect me with your weapons! Arjuna seeks to kill me; grant me fearlessness! Drona, Duryodhana, Kripa, Karna, the king of Madras, Balhika, Dussasana, and others can protect one even from Yama himself. But, if Arjuna alone threatens me, won't all you lords of the earth, all of you together, be able to shield me?'. 

As he grieved, heart racing with dread, King Duryodhana, ever prioritizing his interests, declared: 'Fear not, tiger among men! Who dares face you, bull among men, surrounded by these Kshatriya heroes? Myself, Karna (son of Vikartana), Chitrasena, Vivinsati, Bhurisravas, Sala, Salya, the mighty Vrishasena, Purumitra, Jaya, Bhoja, Sudakshina of the Kambhojas, Satyavrata, the strong-armed, Vikarna, Durmukha, Dussasana, Subahu, the Kalinga king with weapons raised, Vinda and Anuvinda of Avanti, Drona, his son, and Shakuni (son of Subala)—these and countless kings will encircle you in battle with their forces! Calm your fears! You are a foremost chariot warrior, a hero of immense splendour! Why fear, king of the Sindhus?' 

Drona added, 'Avoid fearing Arjuna! I will shield you from this fear, son! Even the gods cannot defeat one guarded by my arms! I'll create a formation Parthas cannot break! So, stand firm in battle, fear not, uphold your duty! Great warrior, follow your forefathers! One by one, we all, claimed by all-powerful Time, shall pass to the next world, bearing only our deeds.'

 

इति श्री जयसंहिते  द्रोणपर्वणि दशमोऽध्यायः॥

 

Droṇaparva Chapter- 9

Droṇaparva Chapter- 11

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13