Bhīṣmaparva Chapter -2

 

भीष्मपर्व - Bhīṣmaparva

अध्यायः – 2 ::Chapter-2

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

अथ गावल्गणिर्धीमान्समरादेत्य सञ्जयः ।

ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः ।

आचष्ट निहतं भीष्मं भरतानाममध्यमम् ॥ 1॥

सञ्जयोऽहं महाराज नमस्ते भरतर्षभ ।

हतो भीष्मः शान्तनवो भरतानां पितामहः ॥ 2॥

यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् ।

स शेते निहतो राजन्सङ्ख्ये भीष्मः शिखण्डिना ॥ 3॥

यः सर्वान्पृथिवीपालान्समवेतान्महामृधे ।

जिगायैकरथेनैव काशिपुर्यां महारथः ॥ 4॥

जामदग्न्यं रणे राममायोध्य वसुसम्भवः ।

न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥ 5॥

महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव ।

समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः ॥ 6॥

शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः ।

नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥ 7॥

पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे ।

प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः ॥ 8॥

परिरक्ष्य स सेनां ते दशरात्रमनीकहा ।

जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ 9॥

यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः ।

जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ 10॥

स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः ।

तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ॥ 11॥

11 (79)

Vaisampayana said, "Sanjaya, the wise son of Gavalgana, rushed back from the battlefield, filled with sorrow, and told Dhritarashtra, who was deep in thought, that Bhishma, the elder statesman of the Bharatas, had been killed." 

"Sanjaya said, 'I am Sanjaya, O great king. I honour you, O lion of the Bharata line. Bhishma, son of Santanu and elder of the Bharatas, has been slain. This foremost warrior, the grandfather of the Bharatas, has fallen. This Bhishma, upon whose strength your son had relied during that game of dice, now lies dead on the battlefield, killed by Shikhandin. This great charioteer who had defeated all the kings of the world single-handedly in terrible combat at Kasi, who fought valiantly against Rama, the son of Jamadagni, and could not be killed by him, has fallen today, slain by Shikhandin. Like the mighty Indra in courage, steadfast like Himavat, solemn as the ocean, and patient as the Earth itself, this invincible warrior, with arrows for teeth, a bow for a mouth, and a sword for a tongue, has today been killed by the prince of Panchala.' 

That slayer of heroes, whom the mighty Pandava army feared to face in battle, trembling like cattle before a lion, has now fallen, after protecting them for ten nights and accomplishing tremendous feats. He has set, like the Sun. This warrior, who was like the god Indra, calmly shooting thousands of arrows and killing ten thousand enemies every day for ten days, now lies slain, undeserving of this fate, on the bare ground like a mighty tree uprooted by the wind, all because of your misguided decisions, O king, O Bharata.

धृतराष्ट्र उवाच॥

कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना ।

कथं रथात्स न्यपतत्पिता मे वासवोपमः ॥ 1॥

कथमासंश्च मे पुत्रा हीना भीष्मेण सञ्जय ।

बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥ 2॥

आर्तिः परा माविशति यतः शंससि मे हतम् ।

कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् ॥ 3॥

के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् ।

रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ॥ 4॥

यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा ।

सहस्ररश्मिप्रतिमः परेषां भयमादधत् ॥ 5

अकरोद्दुष्करं कर्म रणे कौरवशासनात् ॥

ग्रसमानमनीकानि य एनं पर्यवारयन् ॥6

कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके ॥

कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् ॥ 7॥

कृपे संनिहिते तत्र भरद्वाजात्मजे तथा ।

भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ॥ 8॥

कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना ।

भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः ॥ 9॥

यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः ।

न पाण्डवानगणयत्कथं स निहतः परैः ॥ 10॥

सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् ।

हतं शान्तनवं श्रुत्वा मन्ये शेषं बलं हतम् 11

धर्मादधर्मो बलवान्सम्प्राप्त इति मे मतिः ।

यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ 12॥

जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः ।

अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः ॥ 13॥

तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् ।

हतं शंससि भीष्मं मे किं नु दुःखमतः परम् ॥ 14॥

यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे ।

अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ 15॥

न चास्त्रेण न शौर्येण तपसा मेधया न च ।

न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥ 16॥

कालो नूनं महावीर्यः सर्वलोकदुरत्ययः ।

यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय ॥ 17॥

पुत्रशोकाभिसन्तप्तो महद्दुःखमचिन्तयन् ।

आशंसेऽहं पुरा त्राणं भीष्माच्छन्तनुनन्दनात् ॥ 18॥

नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् ।

शेषं किञ्चित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ॥ 19॥

दारुणः क्षत्रधर्मोऽयमृषिभिः सम्प्रदर्शितः ।

यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ 20॥

वयं वा राज्यमिच्छामो घातयित्वा पितामहम् ।

क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ॥ 21॥

एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय ।

पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् ॥ 22॥

महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् ।

दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ॥ 23॥

श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् ।

तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय ॥ 24॥

सङ्ग्रामे पृथिवीशानां मन्दस्याबुद्धिसम्भवम् ।

अपनीतं सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥ 25॥

 25 (104)

Dhritarashtra said, 'How was Bhishma, the greatest among the Kurus, slain by Shikhandin? How did my father, who was like the god Indra himself, fall from his chariot? What happened to my sons, Sanjaya, when they lost the mighty Bhishma, who was like a celestial being and lived a life of celibacy for the sake of his father? Hearing that this champion among the Kurus, this steadfast hero, has been killed fills my heart with immense grief. What brave warriors protected him, that fierce car-warrior and skilled archer, as he advanced through the enemy ranks? 

In the midst of battle, who dared stand against the one who seemed to shine like a thousand suns, spreading terror among the foes and breaking their lines like the sun dispels darkness, achieving remarkable feats against the sons of Pandu? How, Sanjaya, did the Pandavas confront the son of Santanu, that skilled and unbeatable fighter, as he attacked? When Kripa and Drona were near him, how could Bhishma, the greatest of fighters, be killed? How could Bhishma, who was considered an Atiratha and whom even the gods could not resist, be slain in battle by Shikhandin, the prince of Panchala? You tell me, Sanjaya, that warrior of immense strength on whom my son relied so heavily, all my hopes were pinned on him, yet he has been killed by the enemy.' 

Skilled in every form of combat and humble in spirit, gentle but able to control his emotions, and filled with great energy, I now lament the death of Santanu's son. My entire army feels defeated. I believe that wrong has triumphed over right, as the sons of Pandu seek power even at the cost of their esteemed elder's life! In ancient times, the mighty Rama, son of Jamadagni and unmatched in skill, was defeated by Bhishma while fighting for Amba. How has this unparalleled warrior, brimming with strength, wisdom, and strategy, met his end? No amount of weapons, bravery, self-discipline, intellect, or resolve can shield any man from death. Indeed, time is relentless and cannot be resisted. Sanjaya, hearing you say that Bhishma is dead fills me with despair. Grieving for my sons, I had hoped for salvation from Bhishma, Santanu's noble son.’ 

O Sanjaya, as I reflect deeply, I cannot see what will become of our kings and those of the enemy now gathered for battle. How harsh are the responsibilities of the warrior class, as established by the sages, since the Pandavas seek power, even at the cost of killing the son of Santanu, and we too wish to gain power by sacrificing that noble hero. Both the sons of Pritha and my own sons are fulfilling their warrior duties, so they bear no sin in this act. A righteous person must sometimes take such actions when faced with dire situations. Demonstrating strength and showcasing might are part of the Kshatriya's responsibilities. My sons are surely mourning the loss of Bhishma, who was renowned across the world and carried a heavy burden. I must hear about all the suffering caused by Duryodhana’s decisions. So, tell me, Sanjaya, everything that happened there in the battle, whether it was chaotic or well-organized, I need to know it all, Sanjaya..

सञ्जय उवाच॥

त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि ।

न तु दुर्योधने दोषमिममासक्तुमर्हसि ॥ 1॥

य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।

एनसा तेन नान्यं स उपाशङ्कितुमर्हति ॥ 2॥

महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् ।

स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ 3॥

निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया ।

अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने ॥ 4॥

तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः ।

दुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥ 5॥

दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।

अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥ 6॥

अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः ।

पाण्डवानां ससैन्यानां कुरूणां च समागमः ॥ 7॥

नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् ।

हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥ 8॥

अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् ।

श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम ॥ 9॥

तस्माद्भीष्मो रक्षितव्यो विशेषेणेति मे मतिः ।

शिखण्डिनो वधे यत्ताः सर्वे तिष्ठन्तु मामकाः ॥ 10॥

तथा प्राच्याः प्रतीच्याश्च दाक्षिणात्योत्तरापथाः ।

सर्वशस्त्रास्त्रकुशलास्ते रक्षन्तु पितामहम् ॥ 11॥

अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् ।

मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥ 12॥

वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ।

गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः ॥ 13॥

संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः ।

यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥ 14॥

ततो रजन्यां व्युष्टायां शब्दः समभवन्महान् ।

क्रोशतां भूमिपालानां युज्यतां युज्यतामिति ॥ 15॥

शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत ।

हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा ॥ 16॥

गजानां बृंहतां चैव योधानां चाभिगर्जताम् ।

क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ॥ 17॥

उदतिष्ठन्महाराज सर्वं युक्तमशेषतः ।

सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ॥ 18॥

श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् ।

अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ॥ 19॥

हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् ।

श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥ 20॥

दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः ।

सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ॥ 21॥

जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा ।

धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ॥ 22॥

एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत ।

पाण्डवानां तथा सप्त महापुरुषपालिताः ॥ 23॥

उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ ।

युगान्ते समुपेतौ द्वौ दृश्येते सागराविव ॥ 24॥

नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः ।

अनीकानां समेतानां समवायस्तथाविधः ॥ 25॥

उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः ।

ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः ॥ 26॥

पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप ।

दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ॥ 27॥

विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।

सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ॥ 28॥

रथा विंशतिसाहस्रास्तथैषामनुयायिनः ।

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 29॥

शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा ।

सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ॥ 30॥

द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः ।

महता रथवंशेन तेऽभ्यरक्षन्पितामहम् ॥ 31॥

31 (135) 

Sanjaya said, 'O great king, this question is indeed fitting for you, yet you should not blame Duryodhana for this fault. A person who suffers the consequences of their own wrong actions should not shift the blame onto others. The man who harms others deserves to be punished for his wrongful deeds. The Pandavas, unaware of wickedness, with their allies and advisors, have long endured the injuries done to them, forgiving their aggressors as they lived in the forests. 

As the warriors arranged themselves for battle, Duryodhana instructed Dussasana, 'Quickly bring chariots to protect Bhishma, and rally our troops to advance. Finally, the moment I've long awaited is here—the clash between the Pandavas and Kurus. Protecting Bhishma is crucial in this battle. If he is safeguarded, he will defeat the Pandavas, the Somakas, and the Srinjayas.' That noble warrior declared, 'I will not fight Shikhandin, as it is said he was once a woman. Because of this, I shall not engage with him in battle.'. 

For this reason, Bhishma must be carefully safeguarded. Let all my warriors take their positions, determined to defeat Shikhandin. Let the troops from the east, west, south, and north—skilled in all types of weaponry—defend our venerable leader. Even the strongest lion, if left vulnerable, can be taken down by a wolf. Therefore, we must not allow Bhishma to be defeated by Shikhandin like a lion falling to a jackal. Yudhamanyu guards the left wheel, while Uttamauja protects the right wheel of Phalguni. With their protection, Phalguni shields Shikhandin. O Dussasana, ensure that Shikhandin, safeguarded by Phalguni and whom Bhishma will abandon, does not harm Ganga's son. 

As night faded away, the kings rose with a loud clamour, all shouting, 'Form up! Form up!' The sound of conches, drums echoing like lions' roars, horses neighing, chariots rattling, and the thunderous noise of elephants and the boisterous cries of warriors filled the air with chaos. The great armies of the Kurus and Pandavas, O king, rose at dawn and finalized their preparations. When the sun appeared, the fierce weapons and armour of your sons and the Pandavas, along with the mighty and dazzling forces on both sides, became clearly visible.' 

In the chariot of that division sat the son of Santanu. Dressed in white headgear, holding a white umbrella, and clad in white armour, dear king, we saw Bhishma, unmatched in strength, appearing like the full moon. His flag, embossed with a golden palmyra, flew proudly as he stood on a silver chariot. Both the Kuru and Pandava factions gazed at this hero, resembling the moon surrounded by white clouds. The great archers of the Srinjayas, led by Dhrishtadyumna, trembled like small creatures before a fearsome yawning lion when they saw Bhishma. Indeed, all the warriors led by Dhrishtadyumna shook with fear. These, O king, formed the eleven glorious divisions of your army. Likewise, the seven divisions of the Pandavas were shielded by the best of men.

Truly, the two armies facing off seemed like two oceans at the end of an era, stirred by fierce creatures and teeming with large crocodiles. Never before, O king, had we witnessed or heard of two such formidable armies clashing as those of the Kauravas. Among your sons, O king, were Dussasana, Durvishaha, Durmukha, Dussaha, Vivinsati, Chitrasena, and the mighty warrior Vikarna, protecting Bhishma from behind. Alongside them were Satyavrata, Purumitra, Jaya, Bhurisravas, and Sala, supported by twenty thousand chariot warriors. The Abhishahas, Surasenas, Sivis, Vasatis, Swalyas, Matsyas, Amvashtas, Trigartas, and Kekayas, along with the Sauviras, Kitavas, and residents of the Eastern, Western, and Northern lands—twelve brave tribes—all prepared to fight without concern for their lives. They formed a vast array of chariots to safeguard their venerable leader, Bhishma.

 

इति श्री जयसंहिते  भीष्मपर्वणि द्वितीयोऽध्यायः॥

 

Bhīṣmaparva Chapter- 1

Bhīṣmaparva Chapter- 3

 

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13