Bhīṣmaparva Chapter - 14 (Tenth day war - Bhishma’s death)

 

भीष्मपर्व - Bhīṣmaparva (दशम दिवसीय युद्धम् - भीष्म वध)

अध्यायः – 14  ::Chapter-14 (Tenth day war - Bhishma’s death)

Shlokas

No. of Shlokas

सञ्जय उवाच॥

ततः प्रभाते विमले सूर्यस्योदयनं प्रति

वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु 1

ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः

शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि 2

तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम्

अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति 3

सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः ।

शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥4

जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् ।

दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥ 5॥

एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः ।

दहते मामकान्सर्वान्कृष्णवर्त्मेव काननम् ॥ 6॥

एवमुक्तो महाराज पिता देवव्रतस्तव ।

चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ॥

तव सन्धारयन्पुत्रमब्रवीच्छन्तनोः सुतः ॥ 7॥

दुर्योधन विजानीहि स्थिरो भव विशां पते ।

पूर्वकालं तव मया प्रतिज्ञातं महाबल ॥ 8॥

हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम् ।

सङ्ग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम् ॥

इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥ 9॥

अद्य चापि महत्कर्म प्रकरिष्ये महाहवे ।

अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान् ॥ 10॥

अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् ।

शिखण्डिनमथोवाच समभ्येहि पितामहम् ॥ 11॥

न चापि भीस्त्वया कार्या भीष्मादद्य कथञ्चन ।

अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ॥ 12॥

एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।

अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ 13॥

धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः ।

हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ॥ 14॥

विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः ।

अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ॥ 15॥

नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् ।

तथेतराणि सैन्यानि सर्वाण्येव विशां पते ॥ ॥

समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥ 16॥

अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् ।

भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश ॥ ॥

दुःशासनो महेष्वासो वारयामास संयुगे ॥ 17॥

अन्ये च तावका योधाः पाण्डवानां महारथान् ।

भीष्मायाभिमुखं यातान्वारयामासुराहवे ॥ 18॥

तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः ।

अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ॥ 19॥

पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना ।

हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत् ॥ ॥

अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ॥ 20॥

निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान्

प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत 21

अयं दिवसस्तात यत्र पार्थो महारथः

जिघांसुः समरे भीष्मं परं यत्नं करिष्यति 22

विजयी रणे नित्यं भैरवास्त्रश्च पाण्डवः

तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् 23

सेनापतिस्तु समरे प्राह सेनां महारथः

अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह 24

सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः

अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः 25

वध्यमानस्ततो राजन्पिता शान्तनवस्तव

अमर्षवशमापन्नो योधयामास सृञ्जयान् 26

तस्य कीर्तिमतस्तात पुरा रामेण धीमता

सम्प्रदत्तास्त्रशिक्षा वै परानीकविनाशिनी 27

तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम्

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः 28

भीष्मो दश सहस्राणि जघान परवीरहा

तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ 29

भीष्मेणैकेन मत्स्येषु पाञ्चालेषु संयुगे

गजाश्वममितं हत्वा हताः सप्त महारथाः 30

चैनं पार्थिवा राजञ्शेकुः केचिन्निरीक्षितुम्

मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि 31

यथा दैत्यचमूं शक्रस्तापयामास संयुगे

तथा भीष्मः पाण्डवेयांस्तापयामास भारत 32

तथा तं पराक्रान्तमालोक्य मधुसूदनः

उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् 33

एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः

नानिहत्य बलादेनं विजयस्ते भविष्यति 34

यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः

हि भीष्मशरानन्यः सोढुमुत्सहते विभो 35

ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः

सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः 36

चापि कुरुमुख्यानामृषभः पाण्डवेरितान्

शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् 37

ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः

बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः 38

ततस्तस्य तेषां युद्धे देवासुरोपमे

किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम् 39

39 (935)

Sanjaya said, "As the sun rose, all the Pandavas marched out for battle, accompanied by the sound of drums and cymbals and the loud blast of conch shells. They positioned Sikhandin at the forefront. Likewise, the Kauravas, led by the mighty warrior Bhishma, advanced toward the Pandavas. Partha charged into battle with a fierce roar, shooting arrows like a relentless storm. 

Seeing the victorious son of Pandu wreak havoc on his forces, Duryodhana, overcome with fear, turned to Bhishma and exclaimed, 'O sire, the son of Pandu, with his white horses and Krishna as his charioteer, is destroying my army like a fire ravaging a forest.' In response, your father, Devavrata, son of Santanu, took a moment to think, then reassured your son, 'O Duryodhana, listen carefully. O mighty king, I pledged to you that I would return from battle after slaying ten thousand noble Kshatriyas each day. I have kept that vow! Today, I will accomplish something great. I will either fall in battle or defeat the Pandavas.'".’ 

Then Arjuna, O king, seeing Bhishma's skill in battle, spoke to Sikhandin, saying, 'Charge ahead towards our grandfather. You should fear Bhishma not at all today. I myself will bring him down from his proud chariot with my sharp arrows.'

Hearing this from Partha, Sikhandin, O pride of Bharata, charged at the son of Ganga. Likewise, Dhrishtadyumna and the strong charioteer Abhimanyu, filled with joy upon hearing Partha's words, rushed towards Bhishma. Old Virata, Drupada, and Kuntibhoja, armored and ready, charged at Bhishma in full view of your son. Nakula, Sahadeva, the brave king Yudhishthira, and all the other warriors, O monarch, also rushed towards Bhishma. 

Dussasana, in the fray, confronted Arjuna, who was charging swiftly with Sikhandin before him, eager to reach Bhishma and lighting up the skies with his bright weapons. Other warriors from your army fought fiercely against the Pandavas, who were advancing on Bhishma. Then Partha, filled with rage, placed a number of arrows, sharpened on stone and with golden flights, on his bowstring and launched them at his enemy. Afflicted by the mighty son of Pandu, your son, avoiding Partha, hurried towards Bhishma's chariot, where Bhishma then became a refuge for him, like an island in a stormy sea. 

Drona, versed in every sign, observing the omens around, spoke to his son, who was burning through the enemy ranks, saying, 'This is the day, my son, when powerful Partha will give his all to slay Bhishma. Steer clear of Arjuna's path and head into battle to protect Bhishma.'. 

Then the leader of the Pandava army, the powerful charioteer Dhrishtadyumna, spoke to his soldiers, saying, 'You Somakas, joined by the Srinjayas, charge at the son of Ganga!' Heeding their commander's words, the Somakas and the Srinjayas, despite enduring a hail of arrows, charged at Ganga's son. Attacked in this way, O king, your father Bhishma, fueled by anger, engaged in battle with the Srinjayas. In ancient times, O sire, the wise Rama taught Bhishma, known for his glorious deeds, the deadly techniques of combat that broke enemy lines. Leaning on that teaching, the old Kuru grandsire Bhishma wreaked havoc on the opposing forces, killing ten thousand warriors daily. 

On the tenth day, however, O noble scion of Bharata, Bhishma single-handedly brought down ten thousand elephants and slew seven mighty charioteers from the Matsyas and the Panchalas. On the tenth day, while standing between the two armies with his bow in hand, Bhishma shone like the blazing midday sun. No king dared to meet his gaze, for he unleashed his might like Sakra, scorching the Pandava forces. 

Observing this, the mighty Krishna, son of Devaki, turned to Dhananjaya and said, 'Look, Bhishma, son of Santanu, stands there. If you can defeat him, victory will be yours. Check him at that very spot where he breaks our ranks; you alone have the strength to withstand his arrows.' Encouraged by these words, Arjuna, with his ape banner, made Bhishma, along with his chariot, horses, and standard, unseen with his arrows. Yet, Bhishma countered, showering his own arrows to pierce the arrows of the son of Pandu. Despite being fierce and unyielding in battle, the skilled archers struck Bhishma with expertly aimed arrows. In that clash, which resembled the battles of the gods and Asuras of old, Arjuna, adorned with his crown, placed Sikhandin before him and continued to strike Bhishma fiercely.'

सञ्जय उवाच॥

एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम्

विव्यधुः समरे भीष्मं परिवार्य समन्ततः 1

शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः

मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः 2

शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः

नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत

अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः 3

तस्य ते निशितान्बाणान्संनिवार्य महारथाः

दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा 4

शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते

ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः 5

ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत

शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् 6

भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः

द्रोणश्च कृतवर्मा सैन्धवश्च जयद्रथः 7

भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव

सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः 8

उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः

अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् 9

सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः

विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः 10

अभिमन्युश्च सङ्क्रुद्धः सप्तैते क्रोधमूर्छिताः

समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः 11

तेषां समभवद्युद्धं तुमुलं लोमहर्षणम्

सङ्ग्रामे भरतश्रेष्ठ देवानां दानवैरिव 12

शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना

अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे

सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे 13

सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम्

तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः 14

एवं पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः

धनुर्भीष्मस्य चिच्छेद सव्यसाची परन्तपः 15

च्छिन्नधन्वा सङ्क्रुद्धः सृक्किणी परिसंलिहन्

शक्तिं जग्राह सङ्क्रुद्धो गिरीणामपि दारणीम्

तां चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति 16

तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव

समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः 17

तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः

सङ्क्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् 18

सा पपात परिच्छिन्ना सङ्क्रुद्धेन किरीटिना

मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा 19

छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः

अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः 20

कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः

अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः 21

पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत्

स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा

तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः 22

पुनः शरशतेनैनं त्वरमाणो धनञ्जयः

सर्वगात्रेषु सङ्क्रुद्धः सर्वमर्मस्वताडयत् 23

ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत

अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् 24

ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत

अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना 25

वज्राशनिसमस्पर्शाः शिताग्राः सम्प्रवेशिताः

विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः

एवं विभो तव पिता शरैर्विशकलीकृतः 26

शिताग्रैः फल्गुनेनाजौ प्राक्षिराः प्रापतद्रथात्

किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् 27

एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि

पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे 28

तस्मिन्हते महासत्त्वे भरतानाममध्यमे

किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ 29

सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते

संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः 30

30 (965)

Sanjaya continued, "So all the Pandavas, with Sikhandin in the lead, surrounded Bhishma and struck him fiercely from every angle. The Srinjayas banded together, attacking him with deadly weapons like powerful maces, battle-axes, mallets, and thick clubs, along with bearded darts and various missiles, including arrows with golden feathers. They also unleashed long lances, sharp arrows with calf-tooth heads, and rockets. These formidable warriors battered Bhishma with great force, each launching ten arrows at him. The mighty arrows, sharpened on stone and adorned with golden wings, shot by the great warrior Sikhandin, swiftly pierced Bhishma's body. 

Then, Arjuna, crowned and filled with rage, pushed Sikhandin forward and charged at Bhishma, successfully cutting off his bow. This act enraged seven powerful warriors: Drona, Kritavarman, Jayadratha of the Sindhus, Bhurisravas, Sala, Salya, and Bhagadatta, who could not tolerate Arjuna's defiance. Enraged, they surged towards him. However, Satyaki, Bhimasena, Dhrishtadyumna of Prishata's lineage, along with Virata, Drupada, the demon Ghatotkacha, and the fierce Abhimanyu—formidable warriors of the Pandava side—ran to defend Arjuna. The seven furious warriors, armed with fine bows, charged swiftly into battle, and the combat that ensued between them and the Kauravas was intense and electrifying, reminiscent of the battles between gods and the Danavas, making one’s hair stand on end, oh chief of the Bharatas." 

Sikhandin, the leading warrior, backed by Arjuna in battle, shot ten arrows at Bhishma after severing his bow. He also struck Bhishma's charioteer and knocked down the charioteer's banner with another arrow. Bhishma then picked up a stouter bow, but Arjuna swiftly destroyed it with three precise arrows. Infuriated, Arjuna, skilled enough to draw his bow with either hand, shattered each bow that Bhishma brandished. Furious and licking his lips, Bhishma grabbed a powerful spear designed to pierce mountains and hurled it at Arjuna's chariot. Seeing it come at him like a lightning bolt, Arjuna swiftly readied five sharp arrows and shattered the spear into five pieces, causing it to tumble down like a flash of lightning breaking from the clouds. Witnessing the destruction of his spear, Bhishma was filled with rage. 

Bhishma began to contemplate. He said to himself, 'For two reasons, I won't engage the Pandavas: their unbeatable strength and Sikhandin's femininity. When my father married Satyavati, he granted me two wishes: to be invincible in battle and to choose my own death. I think this may be the time for that.' 

Once again, Dhananjaya swiftly and furiously struck Bhishma in every vulnerable spot with countless arrows. Following this, Bhishma, son of Santanu, lost the will to continue battling Arjuna. 

He turned to Dussasana with a smile and said, 'These arrows, flying towards me in a steady stream, feel like bolts from the heavens, and they were shot by Arjuna. They are not from Sikhandin. They penetrate deeply, cutting through my tough armor and striking me with the force of a hammer; these arrows are definitely not from Sikhandin. 

Thus, your father was wounded by Phalguni's sharp arrows in battle. He then fell from his chariot, facing east, just before sunset, in full view of your sons. When that great warrior of the Kuru clan, Bhishma, fell, the Pandavas and the Srinjayas roared in triumph. When the mighty grandson of Ganga was brought down, your son, O strong one of Bharata's lineage, was at a loss. As the formidable son of Ganga lay dead, the brave warriors of both sides set down their weapons and began to ponder thoughtfully.

 

इति श्री जयसंहिते  भीष्मपर्वणि चतुर्दशोऽध्यायः॥

Bhīṣmaparva Chapter- 13

Droṇaparva Introduction

 

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13