Virāṭaparva - Chapter-1
श्री जयसंहित – Śrī Jayasamhita
विराटपर्व - Virāṭaparva
अध्यायः – 1 ::Chapter-1
Shlokas |
No. of Shlokas |
वैशम्पायन उवाच॥ तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः । गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् ॥ 1॥ कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः । अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् ॥ 2॥ ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः । संनिवर्त्यानुजान्सर्वानिति होवाच भारत ॥ 3॥ द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम् । त्रयोदशोऽयं सम्प्राप्तः कृच्छ्रः परमदुर्वसः ॥ 4॥ स साधु कौन्तेय इतो वासमर्जुन रोचय । यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः ॥ 5॥ अर्जुन उवाच॥ तस्यैव वरदानेन धर्मस्य मनुजाधिप । अज्ञाता विचरिष्यामो नराणां भरतर्षभ ॥ 6॥ किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित् । रमणीयानि गुप्तानि तेषां किञ्चित्स्म रोचय ॥ 7॥ सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून् । पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः ॥ 8॥ दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगन्धराः ॥ ॥ एतेषां कतमो राजन्निवासस्तव रोचते । वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वयम् ॥ 9॥ युधिष्ठिर उवाच॥ एवमेतन्महाबाहो यथा स भगवान्प्रभुः । अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा ॥ 10॥ अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् । संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम् ॥ 11॥ मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान् । धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः ॥ 12॥ विराटनगरे तात संवत्सरमिमं वयम् । कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत ॥ 13॥ यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् । कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः ॥ 14॥ अर्जुन उवाच॥ नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि । विराटनृपतेः साधो रंस्यसे केन कर्मणा ॥ 15॥ मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः । राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव ॥ 16॥ न दुःखमुचितं किञ्चिद्राजन्वेद यथा जनः । स इमामापदं प्राप्य कथं घोरां तरिष्यसि ॥ 17॥ युधिष्ठिर उवाच॥ शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः । विराटमनुसम्प्राप्य राजानं पुरुषर्षभम् ॥ 18॥ सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः । कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता ॥ 19॥ वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह । कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् ॥ 20॥ आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा । इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ॥ 21॥ इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा । वृकोदर विराटे त्वं रंस्यसे केन कर्मणा ॥ 22॥ |
22 |
Vaisampayana said, "Listen, O lord of men, to how your great ancestors lived in obscurity in the city of Virata. After receiving blessings from the god of Justice, the noble Yudhishthira returned to the sanctuary and shared everything that had occurred with the Brahmanas. He also returned the churning staff and fire-sticks to the Brahmana who had accompanied him. Then, O Bharata, the righteous Yudhishthira gathered his younger brothers and said, 'We have been in exile for twelve years. The thirteenth year, which will be tough, has now come. Therefore, Arjuna, son of Kunti, choose a place where we can live without being discovered by our foes.'" Arjuna replied, "By the grace of Dharma, we shall remain hidden, O lord of men. For our residence, I will suggest some beautiful and secluded areas. You should pick one of them. Surrounding Kuru's kingdom are several lands rich in crops, including Panchala, Chedi, Matsya, Surasena, Pattachchara, Dasarna, Navarashtra, Malla, Salva, Yugandhara, Saurashtra, Avanti, and the vast Kuntirashtra. Which of these would you choose, O king, and where shall we spend this year, O chief of kings?" Yudhishthira replied, "Indeed, you strong warriors, it shall be as he, our beloved Lord of all beings, has declared. We must select a pleasant, fortunate, and welcoming place to reside, where we can live without fear. The venerable Virata, king of the Matsyas, is virtuous, powerful, and generous, and he holds a fondness for the Pandavas. We will spend this year in the city of Virata, entering his service. Tell me, brothers of your opinion”. Arjuna said, "O noble one among men, what role will you take in Virata's kingdom? O virtuous one, how will you live in the city of Virata? You are gentle, generous, humble, and righteous, steadfast in your word. What will you do, O king, as you struggle with this disaster? A king should endure hardship like anyone else. How will you navigate this great misfortune that has come upon you?" Yudhishthira replied, "You sons of the Kuru lineage, you strong ones among men, listen to my plan when I appear before King Virata. I will present myself as a Brahmana named Kanka, skilled at dice and fond of games, and become a courtier in the service of that noble king. I will amuse the king with beautiful ivory chess pieces in colors of blue, yellow, red, and white, and play using black and red dice. While I entertain him, no one will uncover my true identity. If the king inquiries about me, I shall respond, 'I was once a close friend of Yudhishthira.' This, I assure you, is how I will spend my time in the city of Virata. What role will you take, O Vrikodara, in this city?" |
|
भीम उवाच॥ पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः । उपस्थास्यामि राजानं विराटमिति मे मतिः ॥ 1॥ सूपानस्य करिष्यामि कुशलोऽस्मि महानसे । कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः ॥ 2॥ तानप्यभिभविष्यामि प्रीतिं सञ्जनयन्नहम् ॥ ॥ आहरिष्यामि दारूणां निचयान्महतोऽपि च ॥3 तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति द्विपा वा बलिनो राजन्वृषभा वा महाबलाः । विनिग्राह्या यदि मया निग्रहीष्यामि तानपि ॥ 4॥ ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः । तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् ॥ 5॥ न त्वेतान्युध्यमानान्वै हनिष्यामि कथञ्चन । तथैतान्पातयिष्यामि यथा यास्यन्ति न क्षयम् ॥ 6 आरालिको गोविकर्ता सूपकर्ता नियोधकः । आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः ॥ 7॥ आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते । इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा ॥ 8॥ युधिष्ठिर उवाच॥ यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम् । दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा ॥ 9॥ महाबलं महाबाहुमजितं कुरुनन्दनम् । सोऽयं किं कर्म कौन्तेयः करिष्यति धनञ्जयः ॥ 10॥ यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ ॥ दक्षिणे चैव सव्ये च गवामिव वहः कृतः ॥ 11॥ अर्जुन उवाच॥ प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते । ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ ॥ 12॥ कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे । वेणीकृतशिरा राजन्नाम्ना चैव बृहन्नडा ॥ 13॥ पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः । रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान् ॥ 14॥ गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा । शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः ॥ 15॥ प्रजानां समुदाचारं बहु कर्मकृतं वदन् । छादयिष्यामि कौन्तेय माययात्मानमात्मना ॥ 16॥ युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका । उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत ॥ 17॥ एतेन विधिना छन्नः कृतकेन यथा नलः । विहरिष्यामि राजेन्द्र विराटभवने सुखम् ॥ 18॥ |
18 (40) |
Bhima said, "I plan to present myself to the lord of Virata as a cook named Vallava. I’m skilled in the culinary arts and will prepare dishes for the king, surpassing all the cooks who have served him before. I will delight the king, carrying heavy loads of firewood, and he will commend my strength. And, O Bharata, witnessing my remarkable feats, the royal servants will treat me with the respect due to a king. I will manage all types of food and drinks. If commanded to control powerful elephants and strong bulls, I will fulfil those tasks. If anyone challenges me to combat, I will defeat them but spare their lives, ensuring they are not harmed. When asked about my past, I will tell them I was the wrestler and cook for Yudhishthira. This is how I will sustain myself, O king." Yudhishthira replied, "What role will the mighty Dhananjaya, the strongest of men, take? He is invincible in battle, and once, while with Krishna, the divine Agni appeared as a Brahmana to request the burning of the Khandava forest. And O Bharata, what role will Vibhatsu, whose long arms are marked by the wear of bowstrings and bear scars like those on a bull's hump, undertake?" Arjuna answered, 'O lord of the land, I will present myself as gender-neutral. O king, it is indeed hard to hide the marks from the bowstring on my arms. Nonetheless, I will cover my scarred arms with bangles. With sparkling earrings and conch-shaped bangles on my wrists, along with a braid falling from my head, I will, O king, present myself as Brihannala, one of the third gender. Living as a woman, I will entertain the king and the residents of the inner quarters by telling stories. Furthermore, O king, I will teach the women of Virata's palace how to sing, dance joyfully, and play various musical instruments. I will recite the notable deeds of men to keep my true identity hidden, O son of Kunti, by pretending to be someone else. And, O Bharata, if the king asks, I will say that I served as a maid for Draupadi in Yudhishthira's palace. Thus, O foremost of kings, by concealing myself like fire hidden by ash, I shall enjoy my time in Virata's palace.' Vaisampayana continued, 'After saying this, Arjuna, the noblest of men and an embodiment of virtue, fell silent. Then, the king spoke to another of his brothers.'." |
|
युधिष्ठिर उवाच॥ किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि । सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥ 1॥ नकुल उवाच॥ अश्वबन्धो भविष्यामि विराटनृपतेरहम् । ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम ॥ 2॥ कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते । प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव ॥ 3॥ ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः । तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ॥ 4 युधिष्ठिर उवाच॥ सहदेव कथं तस्य समीपे विहरिष्यसि । किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ॥ 5॥ सहदेव उवाच॥ गोसङ्ख्याता भविष्यामि विराटस्य महीपतेः । प्रतिषेद्धा च दोग्धा च सङ्ख्याने कुशलो गवाम् ॥ 6॥ तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते । निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः ॥ 7॥ अहं हि भवता गोषु सततं प्रकृतः पुरा । तत्र मे कौशलं कर्म अवबुद्धं विशां पते ॥ 8॥ लक्षणं चरितं चापि गवां यच्चापि मङ्गलम् । तत्सर्वं मे सुविदितमन्यच्चापि महीपते ॥ 9॥ वृषभानपि जानामि राजन्पूजितलक्षणान् । येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥ 10॥ सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा । न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव ॥ 11॥ युधिष्ठिर उवाच॥ इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी । मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा ॥ 12॥ केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति । न हि किञ्चिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥ 13॥ द्रौपद्युवाच॥ सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत । नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः ॥ 14॥ साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि । आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि ॥ 15॥ सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् । सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ॥ 16॥ युधिष्ठिर उवाच॥ कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् । न पापमभिजानासि साधु साध्वीव्रते स्थिता ॥ 17 कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ । मम चापि यथाबुद्धि रुचितानि विनिश्चयात् ॥ 18॥ पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु । सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥ 19॥ इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् । यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥ 20॥ इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः । पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह ॥ 21॥ सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः । गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति ॥ 22 वैशम्पायन उवाच॥ एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः । अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते ॥ 23॥ तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः । समृद्धिवृद्धिलाभाय पृथिवीविजयाय च ॥ 24॥ अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान् । याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥ 25॥ |
25 (65) |
Yudhishthira asked, "You are gentle, elegant, and deserving of every comfort. What role will you take, brave Nakula, while living in the service of that king? Share your plans with me!" Nakula replied, "I will go by the name Granthika and serve as king Virata's horse keeper. I know this job well and am skilled in caring for horses. It's a role I enjoy, and I excel at training and caring for them; horses are as dear to me as they are to you, O king of the Kurus. Under my care, even young colts and mares become gentle and never shy away from riders or chariots. If anyone in Virata's city asks about me, I will tell them that I once managed Yudhishthira's horses. Disguised in this way, I will happily live in Virata. Nobody will uncover my identity this way!" Yudhishthira continued, "How will you, O Sahadeva, present yourself to that king? And what will you do to maintain your disguise, my child?"" Sahadeva answered, "I will take on the task of tending the cattle of King Virata. I am proficient in milking cows and understanding their nature, as well as calming their wildness. Under the name Tantripal, I will carry out my responsibilities skillfully. Do not let your worries consume you. I used to care for your cattle often, and, O King of the Earth, I am knowledgeable in this work. I am also familiar with the characteristics and good signs of cows. I can identify bulls with favorable marks, whose scent can even help barren beings conceive. This is how I will live, and I find joy in such tasks. No one will recognize me, and I will also please the king." Yudhishthira then said, "This is our beloved wife, dearer to us than our own lives. Truly, she deserves our care like a mother and respect like an elder sister. Since she has no experience with the duties of a woman, what role will Krishna, the daughter of Drupada, take on?" Draupadi replied, "There are women known as Sairindhris, who serve others. However, respectable women generally do not. Among them, I will present myself as a Sairandhri, skilled in hairstyling. When asked by the king, I will say that I was a maidservant of Draupadi in Yudhishthira's house. I will spend my days in disguise, serving the renowned Sudeshna, the king's wife. Surely, she will value me. Do not be troubled, O king." Yudhishthira said, "O Krishna, you speak wisely. But, dear lady, you come from a noble family. You are pure and devoted to upholding your virtues, and you know nothing of sin. Therefore, carry yourself in a way that does not please the wicked and those with evil intentions when they look at you." "You have already mentioned the roles you will each take on. I, too, have declared my role according to my understanding. Let our priest, along with the charioteers and cooks, go to Drupada's home to tend to our Agnihotra fires. Let Indrasena and the others, taking the empty chariots, hurry to Dwaravati. This is my desire. Also, let all the servants of Draupadi head to the Panchalas with our charioteers and cooks, and tell them, 'We don’t know where the Pandavas have gone, leaving us by the lake at Dwaitavana.'" Vaisampayana continued, "Responding to Yudhishthira, Dhaumya, the finest of Brahmanas, performed the necessary rites for departure as per tradition. He lit the fires and, with mantras, offered sacrifices for the success and well-being of the Pandavas, wishing for their victory over the entire world. After walking around the fires and the Brahmanas filled with ascetic strength, the six departed, placing Yajnaseni (Draupadi) at the forefront.' |
इति श्री जयसंहिते विराटपर्वणि प्रथमोऽध्यायः
Comments
Post a Comment