आदिपर्व - ādiparva
अध्यायः – 5 ::Chapter-5
|
Shlokas |
No. of Shlokas |
|
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्। अभ्यगच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा॥ 1 जनयामास यं काली शक्तेः पुत्रात्पराशरात्। कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम्॥ 2 जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्। वेदांश्चाधिजगे साङ्गन्सेतिहासान्महायशाः॥ 3 यं नाति तपसा कश्चिन्न वेदाध्ययनेन च। न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना॥ 4 यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत्। शन्तनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः॥ 5 जनमेजयस्य राजर्षेः स महात्मा सदस्तथा। विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः॥ 6 तत्र राजानमासीनं ददर्श जनमेजयम्। वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम्॥ 7 तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः। ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे॥ 8 जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्। सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः॥ 9 काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः। आसनं कल्पयामास यथा शक्रो बृहस्पतेः॥ 10 तत्रोपविष्टं वरदं देवर्षिगणपूजितम्। पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा॥ 11 पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः। पितामहाय कृष्णाय तदर्हाय न्यवेदयत्॥ 12 प्रतिगृह्य तु तां पूजां पाम्डवाज्जनमेजयात्। गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा॥ 13 तथा च पूजयित्वा तं प्रणयात्प्रतितामहम्। उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्॥ 14 भगवानापि तं दृष्ट्वा कुशलं प्रतिवेद्य च। सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत्॥ 15 ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः। इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः॥ 16 जनमेजय उवाच। कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्। तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज॥ 17 कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्। तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्॥ 18 पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्। कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तं द्विजोत्तम। `इच्छामि तत्त्वतः श्रोतुं भगवन्कुशलो ह्यसि'॥ 19 तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा। शशास शिष्यमासीनं वैशम्पायनमन्तिके॥ 20 व्यास उवाच। कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा। तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि॥ 21 गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा। आचचक्षे ततः सर्वमितिहासं पुरातनम्॥ 22 राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः। भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा॥ ॥ 23 |
23 (236) |
|
'When Janamejaya was preparing for the snake-sacrifice, the wise sage Krishna-Dwaipayana went there to participate. He was the grandfather of the Pandavas, born on an island in the Yamuna to the virgin Kali (Satyavati) and Parasara, the son of Sakti. This distinguished sage, upon his birth, immediately developed his physical form and mastered the Vedas and their disciplines, along with all historical accounts. He achieved what others could not through austerities, study of the Vedas, vows, fasting, family, and sacrifices. The Brahmana sage possessed deep knowledge of the supreme reality, understood the past through intuition, was virtuous, and upheld the truth. Renowned for his sacred actions, he fathered Pandu, Dhritarashtra, and Vidura to continue the Santanu lineage. ' The esteemed sage, accompanied by his disciples skilled in the Vedas, entered the royal assembly of Janamejaya. There, he found the king seated like the god Indra, surrounded by numerous council members and kings whose hair had been purified through ritual baths, along with capable priests worthy of reverence. 'As the noble Janamejaya, a key figure of Bharata's lineage, noticed the sage’s arrival, he joyfully approached him with his entourage. The king, with the consent of his advisors, provided a golden seat for the sage, much like Indra once did for Vrihaspati. Once the revered Rishi was comfortably seated, the king of kings honoured him according to traditional practices, offering him—his grandfather Krishna—pure water for washing his feet and mouth, along with the ceremonial offerings and sacred cows. Accepting the offerings from King Janamejaya and ordering that no cattle be harmed, Vyasa felt truly pleased. After these ceremonies, the king bowed to his great-grandfather and, filled with happiness, inquired about his well-being. The esteemed sage, looking at him and reciprocating the inquiry, honored the Sadasyas who had previously honored him. Afterward, Janamejaya, along with all his Sadasyas, respectfully asked that foremost Brahmana with palms together: 'O wise one, you have witnessed the actions of the Kurus and the Pandavas firsthand. I want to hear their story. What caused the divisions among them that led to such extraordinary events? Why did that great battle, which resulted in the death of countless beings, occur between my grandfathers, their judgment clouded by destiny? O excellent Brahmana, please tell me everything as it truly happened.' Hearing these words from Janamejaya, Krishna-Dwaipayana instructed his disciple Vaisampayana, who sat beside him, saying, 'Share the tale of the discord between the Kurus and the Pandavas as you have learned it from me.' Then, at his teacher's command, the blessed Brahmana (Vaisampayana) recounted the entire history to the king, the Sadasyas, and all the assembled leaders, detailing the conflict and the complete downfall of the Kurus and the Pandavas. |
|
|
वैशम्पायन उवाच। गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः। संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्॥ 1 ॥ महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥ 2 ॥ श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्। गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे॥ 3 ॥ शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् । प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ॥4 ॥ ययातेर्द्वे भार्ये बभूवतुः । उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम । अत्रानुवंशो भवति । 5 । यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ 6॥ तत्र यदोर्यादवाः । पूरोः पौरवाः । 7 । पूरोर्भार्या कौसल्या नाम । तस्यामस्य जज्ञे जनमेजयो नाम । यस्त्रीनश्वमेधानाजहार । विश्वजिता चेष्ट्वा वनं प्रविवेश । 8 । जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् । तस्यामस्य जज्ञे प्राचिन्वान् । यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् । ततस्तस्य प्राचिन्वत्वम् । 9 । प्राचिन्वान्खल्वश्मकीमुपयेमे । तस्यामस्य जज्ञे संयातिः । 10 । संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे । तस्यामस्य जज्ञे अहम्पातिः । 11 । अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम । तस्यामस्य जज्ञे सार्वभौमः । 12। सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम । तस्यामस्य जज्ञे जयत्सेनः । 13 । जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम । तस्यामस्य जज्ञे अराचीनः । 14 । अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे महाभौमः । 15 । महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम । तस्यामस्य जज्ञे अयुतनायी । यः पुरुषमेधानामयुतमानयत् । तदस्यायुतनायित्वम् । 16 । अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम । तस्यामस्य जज्ञे अक्रोधनः । 17 । अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे । तस्यामस्य जज्ञे देवातिथिः । 18 । देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम । तस्यामस्य जज्ञे ऋचः । 19 । ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम । तस्यां पुत्रमजनयदृक्षम् । 20 । ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम । तस्यां पुत्रं मतिनारं नामोत्पादयामास । 21 । मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार । निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास । तस्यां पुत्रमजनयत्तंसुं नाम । 22। अत्रानुवंशो भवति । तंसुं सरस्वती पुत्रं मतिनारादजीजनत् । इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥ 23॥ इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् ।24 दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे । तस्यामस्य जज्ञे भरतः । तत्र श्लोकौ भवतः ॥ 25 ॥ माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥ 26॥ रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ 27॥ ततोऽस्य भरतत्वम् । भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम । तस्यामस्य जज्ञे भुमन्युः । 28 । भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम । तस्यामस्य जज्ञे सुहोत्रः । 29 । सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम । तस्यामस्य जज्ञे हस्ती । य इदं हास्तिनपुरं मापयामास । एतदस्य हास्तिनपुरत्वम् । 30 । हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम । तस्यामस्य जज्ञे विकुण्ठनः । 31 । विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम । तस्यामस्य जज्ञेऽजमीढः । 32 । अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति । पृथक्पृथग्वंशकरा नृपतयः । तत्र वंशकरः संवरणः । 33 । संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे । तस्यामस्य जज्ञे कुरुः । 34 । कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम । तस्यामस्य जज्ञे विडूरथः । 35 । विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम । तस्यामस्य जज्ञेऽरुग्वान्नाम ।36 । अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम । तस्यामस्य जज्ञे परिक्षित् । 37 । परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम । तस्यामस्य जज्ञे भीमसेनः । 38। भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम । तस्यामस्य जज्ञे पर्यश्रवाः । यमाहुः प्रतीपं नाम । 39। प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम । तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति । 40 । देवापिः खलु बाल एवारण्यं प्रविवेश । शन्तनुस्तु महीपालोऽभवत् । अत्रानुवंशो भवति । 41 । यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते । पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥ 42॥ तदस्य शन्तनुत्वम् । 43 । शन्तनुः खलु गङ्गां भागीरथीमुपयेमे । तस्यामस्य जज्ञे देवव्रतः । यमाहुर्भीष्म इति । 44। भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् । यामाहुर्गन्धकालीति । 45 । तस्यां कानीनो गर्भः पराशराद्द्वैपायनः । तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः । चित्राङ्गदो विचित्रवीर्यश्च । 46 । तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः । विचित्रवीर्यस्तु राजा समभवत् । 47 । विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे । 48 । विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः । ततः सत्यवती चिन्तयामास । दौःषन्तो वंश उच्छिद्यते इति । 49 । सा द्वैपायनमृषिं चिन्तयामास । । स तस्याः पुरतः स्थितः किं करवाणीति । 50 । सा तमुवाच । भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः । साध्वपत्यं तस्योत्पादयेति । 51 । स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति । 52 । तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य । 53 । तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति । 54 । पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने ।55 । अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् । तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान । 56। स बाणविद्ध उवाच पाण्डुम् । चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति । 57 । स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये । वाक्यं चोवाच ।58 स्वचापल्यादिदं प्राप्तवानहम् । शृणोमि च नानपत्यस्य लोका सन्तीति । सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच । सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति । 59 । स तां हृष्टरूपः पाण्डुरुवाच । इयं ते सपत्न्यनपत्या । साध्वस्यामपत्यमुत्पाद्यतामिति । स एवमस्त्वित्युक्तः कुन्त्या । 60 । ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ । 61 । माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे । स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः । 62 । तत्रैनं चितास्थं माद्री समन्वारुरोह । उवाच कुन्तीम् । यमयोरार्ययाप्रमत्तया भवितव्यमिति । 63 । मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्। नचिरादेव विद्वांसो वेदे धनुषि चाभवन्॥ 64 तांस्तथा सत्ववीर्यौजःसंपन्नान्पौरसंमतान्। नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः॥ 65 ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः। तेषां निग्रहनिर्वासान्विविधांस्ते समारभन्॥ 66 ततो दुर्योधनः क्रूरः कुलिङ्गस्य मते स्थितः। पाम्डवान्विविधोपायै राज्यहेतोरपीडयत्॥ 67 ददावथ विषं पापो भीमाय धृतराष्ट्रजः। जरयामास तद्वीरः सहान्नेन वृकोदरः॥ 68 प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्। तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्॥ 69 यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्। उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः॥ 70 आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा॥ 71 तेषां तु विप्रकारेषु तेषु तेषु महामतिः। मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत्॥ 72 स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः। पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः॥ 73 यदा तु विविधोपायैः संवृतैर्विवृतैरपि। नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्॥ 74 ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः। धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्॥ 75 `तत्र तान्वासयामास पाण्डवानमितौजसः।' सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः। ततो विवासयामास राज्यभोगबुभुक्षया॥ 76 ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात्। प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम्॥ 77 तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम्। ततः संप्राप्य कौन्तेया नगरं वारणावतम्॥ 78 न्यवसन्त महात्मानो मात्रा सह परन्तपाः। धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे॥ 79 पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः। सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः॥ 80 आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम्। प्राद्रवन्भयसंविग्ना मात्रा सह पन्तपाः॥ 81 ददृशुर्दारुमं रक्षो हिडिम्बं वननिर्झरे। हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात्॥ 82 निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः। प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः॥ 83 एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः। वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः॥ 84 ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः। मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने॥ 85 तत्राससाद क्षुधितं पुरुषादं वृकोदरः। भीमसेनो महाबाहुर्बकं नाम महाबलम्॥ 86 तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः। निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत्॥ 87 ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम्। श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम्॥ 88 ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः। विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः॥ 89 ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च। भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति॥ 90 अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः। तस्माज्जनपदोपेतं सुविभक्तमहापथम्॥ 91 वासाय स्वाण्डवप्रस्थं व्रजध्वं गतमत्सराः। तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः॥ 92 नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः। तत्र ते न्यवसन्पार्थाः संवत्सरगणांन्बहून्॥ 93 वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः। एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः॥ 94 अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून्। अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः॥ 95 उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा। दक्षिणां सहदेवस्तु विजिग्ये परवीरहा॥ 96 एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम्। पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता॥ 97 षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः। ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः॥ 98 वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः। प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम्॥ 99 अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम्। स वै संवत्सरं पूर्णं मासं चैकं वने वसन्॥ 100 ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन। लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्॥ 101 अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्। सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह॥ 102 तस्यां पुत्रमभिमन्युं नाम जनयामास । अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्॥ 103 बीभत्सुर्वासुदेवेन सहितो नृपस्तम। नातिभारो हि पार्थस्य केशवेन सहाभवत्॥ 104 व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव। पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्॥ 105 इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्। मोक्षयामास बीभत्सुर्मयं यत्र महासुरम्॥ 106 स चकार सभां दिव्यां सर्वरत्नसमाचिताम्। तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः॥ 107 ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्। वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च॥ 108 अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम्। ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु॥ 109 नालभन्त महाराज ततो युद्धमवर्तत। ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम्॥ 110 राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः। एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्। भेदो राज्यविनाशश्च जयश्च जयतांवर॥ ॥ 111 विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे । तस्यामस्य परासुर्गर्भोऽजायत । 112 । तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य । षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति । 113 । सञ्जीवयित्वा चैनमुवाच । परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति । 114 । परिक्षित्तु खलु माद्रवतीं नामोपयेमे । तस्यामस्य जनमेजयः ।115 । |
115 (351) |
|
Vaisampayana said, 'First, I bow down to my teacher, touching the ground with all eight parts of my body, filled with devotion and respect. I also honor the entire assembly of Brahmanas and other learned individuals. Now, I will fully recount what I have received from the noble sage Vyasa, the wisest among mortals. O king, now that you are ready, you are worthy to hear the story known as the Bharata. Encouraged by my teacher's command, I feel no fear as I speak. "Hear then, O monarch, as I recite in full the auspicious account of thy own race just as I had heard it from Dwaipayana before. Yayati had two wives: Devayani, the daughter of Usanas, and Sarmishtha, the daughter of Vrishaparvan. An ancient verse describes Yayati's descendants: "Devayani gave birth to Yadu and Turvasu; Sarmishtha, Vrishaparvan's daughter, gave birth to Druhyu, Anu, and Puru." The descendants of Yadu became known as the Yadavas, and the descendants of Puru became the Pauravas.Puru married Kausalya, and they had a son named Janamejaya. This Janamejaya performed three horse-sacrifices and a Viswajit sacrifice before retiring to live in the forest. Janamejaya married Ananta, the daughter of Madhava, and they had a son named Prachinwat. The prince was given this name because he conquered all the eastern countries right up to the edge of where the sun rises.Prachinwat married Asmaki, a Yadava princess, and they had a son named Sanyati. Sanyati married Varangi, the daughter of Drishadwata, and they had a son named Ahayanti. Ahayanti married Bhanumati, the daughter of Kritavirya, and they had a son named Sarvabhauma. Sarvabhauma took Sunanda, the daughter of the Kekaya prince, by force to be his wife. They had a son named Jayatsena.Jayatsena married Susrava, the daughter of the king of Vidarbha, and they had a son named Avachina. Avachina also married a princess of Vidarbha named Maryada, and they had a son named Arihan. Arihan married Angi, and they had a son named Mahabhauma. Mahabhauma married Suyajna, the daughter of Prasenajit, and she gave birth to Ayutanayi. He received this name because he performed a massive sacrifice that required the offerings of ten thousand (Ayuta) men.Ayutanayi married Kama, the daughter of Prithusravas, and they had a son named Akrodhana. Akrodhana married Karambha, the daughter of the king of Kalinga, and they had a son named Devatithi. Devatithi married Maryada, a princess of Videha, and they had a son named Arihan (the second of this name). This Arihan married Sudeva, a princess of Anga, and they had a son named Riksha.Riksha married Jwala, the daughter of Takshaka, and they had a son named Matinara. Matinara performed a highly powerful twelve-year sacrifice on the banks of the Saraswati River. At the end of the ritual, the river goddess Saraswati appeared in person and chose him as her husband. Together, they had a son named Tansu.An ancient verse describes Tansu's lineage: "Tansu was born to Matinara and the goddess Saraswati. Tansu then had a son named Ilina with his wife, a princess of Kalinga. Ilina and his wife Rathantari had five sons, the eldest of whom was Dushyanta. Dushyanta took to wife Sakuntala, the daughter of Vishwamitra. And he begot on her a son named Bharata. Here occurs two slokas about (Dushyanta's) descendants. The mother is only the physical body where the father creates the son. In fact, the father lives on through his son. Therefore, King Dushyanta, support your son and do not insult Sakuntala. You are a leader among men; a father saves himself from spiritual downfall by continuing his lineage through his son. Sakuntala told the truth when she said you are the father of this child. Because the king supported his child after hearing this divine message, Sakuntala's son was named Bharata, which means "the supported." Later, Bharata married Sunanda, the daughter of King Sarvasena of Kasi, and they had a son named Bhumanyu. Bhumanyu married Vijaya, the daughter of Dasarha, and they had a son named Suhotra. Suhotra married Suvarna, the daughter of Ikshvaku, and they had a son named Hasti. Hasti founded the city that was named Hastinapura after him. Hasti married Yasodhara, a princess of Trigarta, and they had a son named Vikunthana. Vikunthana married Sudeva, a princess of Dasarha, and they had a son named Ajamidha. Ajamidha had four wives named Raikeyi, Gandhari, Visala, and Riksha, who gave birth to 2,400 sons. Out of all of them, Samvarana was the one who carried on the royal lineage. Samvarana married Tapati, the daughter of Vivaswat, and they had a son named Kuru. Kuru married Subhangi, a princess of Dasarha, and they had a son named Viduratha. Viduratha married Supriya, the daughter of the Madhavas, and they had a son named Anaswan. Anaswan married Amrita, also a daughter of the Madhavas, and they had a son named Parikshit. Parikshit married Suvasa, the daughter of the Vahudas, and they had a son named Bhimasena. Bhimasena married Kumari, a princess of Kekaya, and they had a son named Pratisravas. Pratisravas had a son named Pratipa. Pratipa married Sunanda, the daughter of Sivi, and they had three sons: Devapi, Santanu, and Valhika.When Devapi was still a boy, he gave up worldly life to live as a hermit in the forest. Consequently, Santanu became the king. The following verse is about King Santanu. " When this king touched old men, they not only felt an incredible sense of pleasure but were also restored to youth. Because of this, he was named Santanu (meaning "peaceful" or "healing touch"). Santanu married Ganga, who gave birth to a son named Devavrata, who later became known as Bhishma. Wanting to make his father happy, Bhishma arranged for Santanu to marry Satyavati, who was also called Gandhakali. Before her marriage, Satyavati had a son named Dwaipayana with the sage Parasara. With Santanu, she had two more sons named Chitrangada and Vichitravirya. Before they grew up, Chitrangada was killed by the Gandharvas. Vichitravirya then became king and married Ambika and Ambalika, the two daughters of the King of Kasi. However, Vichitravirya died without having any children.Satyavati began to worry about how to keep King Dushyanta’s dynasty alive. She remembered her son, the sage Dwaipayana. When he appeared before her, he asked, "What are your commands?" She replied, "Your brother Vichitravirya has died childless. Please father virtuous children on his behalf." Dwaipayana agreed and fathered three children: Dhritarashtra, Pandu, and Vidura. Because of a blessing granted by Dwaipayana, King Dhritarashtra had one hundred sons with his wife, Gandhari. Out of these hundred sons, four became famous: Duryodhana, Duhsasana, Vikarna, and Chitrasena.Pandu had two wonderful wives, Kunti (also called Pritha) and Madri. One day while hunting, Pandu saw a deer mating with its partner. The deer was actually a sage in disguise. Seeing the deer in that position, Pandu shot and killed it before it could finish. Wounded by the king's arrow, the deer instantly changed back into its human form as a sage and said to Pandu, "Pandu, you are a righteous man and you understand the pleasure of desire. You have killed me before my desire was satisfied! Therefore, you too will die the moment you attempt to be intimate with a woman, before your desire is fulfilled!" Hearing this curse, Pandu turned pale. From that day on, he avoided intimacy with his wives.He told them, "I have been cursed because of my own mistake. But I have heard that those who die childless cannot enter the afterlife." Therefore, he asked Kunti to bear children for him, and Kunti agreed.She used her powers to have children. She had Yudhishthira with Dharma (the god of justice), Bhima with Maruta (the god of wind), and Arjuna with Sakra (Indra, the king of gods). Delighted with this, Pandu said to her, "Your co-wife is also childless. Help her have children too." Kunti agreed and shared the invocation mantra with Madri. Through the twin gods, the Ashvins, Madri gave birth to the twins Nakula and Sahadeva. One day, Pandu saw Madri beautifully dressed and filled with jewelry, and he was overcome with desire. The moment he touched her, he died. Madri joined her husband on his funeral pyre. Before she died, she said to Kunti, "Please raise my twins with love." "After their father passed away, the Pandavas returned home and quickly became skilled archers. The Kurus noticed their strength, bravery, and popularity among the people, and this filled them with envy. The scheming Duryodhana, along with Karna and his uncle Suvala, began to plot against them, seeking ways to drive them into exile. Guided by the advice of Sakuni, Duryodhana carried out various schemes to undermine the Pandavas, all in pursuit of unchallenged power." Dhritarashtra's wicked son poisoned Bhima, but Bhima, strong as a wolf, managed to digest the poison with his food. The villain then tied up the sleeping Bhima on the banks of the Ganges and threw him into the water before walking away. But when Bhima, known for his incredible strength, woke up, he broke free from his bindings and emerged, feeling no pain. As he floated, venomous black snakes bit him all over, yet he still did not die. Throughout the many trials the Pandavas faced from their cousins, the Kurus, the wise Vidura worked tirelessly to thwart their evil plans and protect the oppressed. Just as Sakra in the heavens brings happiness to humanity, Vidura consistently shielded the Pandavas from harm. When Duryodhana found that neither his secret nor open efforts could destroy the fate-protected Pandavas—chosen for a significant destiny, including the end of the Kuru lineage—he gathered his advisers, including Karna and Duhsasana. With Dhritarashtra's knowledge, he ordered the construction of a house made of lacquer. Driven by love for his children and desire for power, Dhritarashtra cleverly sent the Pandavas to Varanavata. They departed Hastinapura with their mother, and before leaving, Vidura warned them of imminent danger and how to escape it. The sons of Kunti arrived in Varanavata and lived there with their mother. Following Dhritarashtra’s orders, these noble warriors resided in the lacquer palace, staying alert against Purochana’s threats for an entire year. Underneath the ground, they built an escape route as instructed by Vidura, and set fire to Purochana's house, resulting in his death. Fearing for their lives, the Pandavas fled with their mother. While hiding in a forest by a spring, they encountered a Rakshasa. However, terrified of being discovered by the sons of Dhritarashtra, they escaped into the night. It was in this place that Bhima met and married Hidimba, the sister of the slain Rakshasa, and their son Ghatotkacha was born. The Pandavas, committed to their vows and learned in the Vedas, then traveled to the town of Ekachakra, living there as Brahmacharins. In that town, they resided in a Brahmana's home for a time, practicing self-discipline. It was then that Bhima encountered a fierce, flesh-eating Rakshasa named Vaka. With his incredible strength, Bhima swiftly defeated Vaka, freeing the townspeople from fear. Later on, they learned about Krishna, the princess of Panchala, who was choosing a husband from many suitors. Upon hearing this, they traveled to Panchala, where they won Draupadi as their shared wife, and they lived there for a year. Once they were recognized, these warriors returned to Hastinapura. King Dhritarashtra and Bhishma, son of Santanu, advised the Pandavas: 'To prevent disputes with your cousins, we have decided that Khandavaprastha should be your home. So, go ahead, let go of any jealousy, and settle in Khandavaprastha, a land of many towns and wide roads.' The Pandavas then journeyed to Khandavaprastha with their friends, bringing along many jewels and precious stones. They lived there for years and conquered many princes through their strength. With a strong commitment to righteousness and truth, unaffected by wealth, they remained composed and combated various evils, gradually rising to power. Bhima, known for his might, conquered the East; the brave Arjuna took the North; Nakula claimed the West; and Sahadeva, the skilled warrior, secured the South. Their influence spread across the world, and with the five Pandavas shining like suns, it seemed as though the Earth had six suns. However, Yudhishthira, the just and powerful, sent his beloved brother Arjuna, skilled with the bow, into the forest for a time. Arjuna, a courageous man of solid spirit, spent a year (1) and a month (1) in the woods. During this time, he visited Krishna in Dwaravati and there won the heart of Subhadra, the beautiful younger sister of Vasudeva. Their union was filled with joy, and Arjuna begot Abhimanyu as a son, through Subhadra. Then, O great king, Arjuna, Kunti’s son, with Vasudeva, pleased Agni, the god of fire, by burning the medicinal plants in the Khandava forest to help Agni with his indigestion. With Kesava by his side, the task felt light to Arjuna, just as nothing burdens the mighty Vishnu when he sets out to vanquish his foes. Agni rewarded Arjuna with the magnificent bow Gandiva, an endless quiver, and a chariot adorned with the image of Garuda. On this occasion, Arjuna freed the great Asura Maya from the threat of fire, and in return, Maya created a heavenly palace filled with jewels for the Pandavas. The sinister Duryodhana, seeing this palace, longed to possess it. He tricked Yudhishthira through deceitful dice games, forcing the Pandavas into the forest for twelve years and one additional year in hiding, totaling thirteen years. When the fourteenth year arrived and the Pandavas returned to reclaim their property, they found it denied. This led to war, in which the Pandavas obliterated the entire Kshatriya clan and defeated Duryodhana to reclaim their shattered kingdom. This is the tale of the Pandavas, who stayed true to righteousness, recounting how the Kurus lost their kingdom and the Pandavas triumphed.'" Abhimanyu kept his family line alive. He married Uttara, the daughter of Virata. She gave birth to a stillborn baby. Kunti took the dead child onto her lap because Vasudeva (Krishna) commanded her to. Vasudeva said, "I will bring this six-month-old baby back to life." The baby had been born prematurely. The fire of Ashwatthama’s weapon had burned him. This left him without any strength or energy. However, Vasudeva revived him and gave him back his strength, energy, and courage. After bringing him back to life, Vasudeva said, "Because this child was born into a family that was almost wiped out, his name will be Parikshit." Parikshit later married Madravati, your mother, O king. And you, Janamejaya, were born to her. |
|
No comments:
Post a Comment