ādiparva - Chapter-5

 

आदिपर्व - ādiparva

अध्यायः – 5 ::Chapter-5 

Shlokas

No. of Shlokas

श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्।

अभ्यगच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा॥ 1

जनयामास यं काली शक्तेः पुत्रात्पराशरात्।

कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम्॥ 2

जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्।

वेदांश्चाधिजगे साङ्गन्सेतिहासान्महायशाः॥ 3

यं नाति तपसा कश्चिन्न वेदाध्ययनेन च।

न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना॥ 4

यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत्।

शन्तनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः॥ 5

जनमेजयस्य राजर्षेः स महात्मा सदस्तथा।

विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः॥ 6

तत्र राजानमासीनं ददर्श जनमेजयम्।

वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम्॥ 7

तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः।

ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे॥ 8

जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्।

सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः॥ 9

काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः।

आसनं कल्पयामास यथा शक्रो बृहस्पतेः॥ 10

तत्रोपविष्टं वरदं देवर्षिगणपूजितम्।

पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा॥ 11

पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः।

पितामहाय कृष्णाय तदर्हाय न्यवेदयत्॥ 12

प्रतिगृह्य तु तां पूजां पाम्डवाज्जनमेजयात्।

गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा॥ 13

तथा च पूजयित्वा तं प्रणयात्प्रतितामहम्।

उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्॥ 14

भगवानापि तं दृष्ट्वा कुशलं प्रतिवेद्य च।

सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत्॥ 15

ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः।

इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः॥ 16

जनमेजय उवाच।

कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्।

तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज॥ 17

कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्।

तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्॥ 18

पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्।

कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तं द्विजोत्तम।

`इच्छामि तत्त्वतः श्रोतुं भगवन्कुशलो ह्यसि'॥ 19

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा।

शशास शिष्यमासीनं वैशम्पायनमन्तिके॥ 20

व्यास उवाच।

कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा।

तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि॥ 21

गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा।

आचचक्षे ततः सर्वमितिहासं पुरातनम्॥ 22

राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः।

भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा॥ ॥ 23

23 (236)

'When Janamejaya was preparing for the snake-sacrifice, the wise sage Krishna-Dwaipayana went there to participate. He was the grandfather of the Pandavas, born on an island in the Yamuna to the virgin Kali (Satyavati) and Parasara, the son of Sakti. This distinguished sage, upon his birth, immediately developed his physical form and mastered the Vedas and their disciplines, along with all historical accounts. 

He achieved what others could not through austerities, study of the Vedas, vows, fasting, family, and sacrifices. The Brahmana sage possessed deep knowledge of the supreme reality, understood the past through intuition, was virtuous, and upheld the truth. Renowned for his sacred actions, he fathered Pandu, Dhritarashtra, and Vidura to continue the Santanu lineage. '

The esteemed sage, accompanied by his disciples skilled in the Vedas, entered the royal assembly of Janamejaya. There, he found the king seated like the god Indra, surrounded by numerous council members and kings whose hair had been purified through ritual baths, along with capable priests worthy of reverence. 'As the noble Janamejaya, a key figure of Bharata's lineage, noticed the sage’s arrival, he joyfully approached him with his entourage. 

The king, with the consent of his advisors, provided a golden seat for the sage, much like Indra once did for Vrihaspati. Once the revered Rishi was comfortably seated, the king of kings honoured him according to traditional practices, offering him—his grandfather Krishna—pure water for washing his feet and mouth, along with the ceremonial offerings and sacred cows. 

Accepting the offerings from King Janamejaya and ordering that no cattle be harmed, Vyasa felt truly pleased. After these ceremonies, the king bowed to his great-grandfather and, filled with happiness, inquired about his well-being. The esteemed sage, looking at him and reciprocating the inquiry, honored the Sadasyas who had previously honored him. 

Afterward, Janamejaya, along with all his Sadasyas, respectfully asked that foremost Brahmana with palms together: 'O wise one, you have witnessed the actions of the Kurus and the Pandavas firsthand. I want to hear their story. What caused the divisions among them that led to such extraordinary events? Why did that great battle, which resulted in the death of countless beings, occur between my grandfathers, their judgment clouded by destiny? O excellent Brahmana, please tell me everything as it truly happened.' 

Hearing these words from Janamejaya, Krishna-Dwaipayana instructed his disciple Vaisampayana, who sat beside him, saying, 'Share the tale of the discord between the Kurus and the Pandavas as you have learned it from me.'

Then, at his teacher's command, the blessed Brahmana (Vaisampayana) recounted the entire history to the king, the Sadasyas, and all the assembled leaders, detailing the conflict and the complete downfall of the Kurus and the Pandavas. 

वैशम्पायन उवाच।

गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः।

संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्॥ 1

महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः।

प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥ 2

श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्।

गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे॥ 3

शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्।

राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च॥ 4

यथा च युद्धमभवत्पृथिवीक्षयकारकम्।

तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ॥ 5

मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्।

नचिरादेव विद्वांसो वेदे धनुषि चाभवन्॥ 6

तांस्तथा सत्ववीर्यौजःसंपन्नान्पौरसंमतान्।

नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः॥ 7

ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः।

तेषां निग्रहनिर्वासान्विविधांस्ते समारभन्॥ 8

ततो दुर्योधनः क्रूरः कुलिङ्गस्य मते स्थितः।

पाम्डवान्विविधोपायै राज्यहेतोरपीडयत्॥ 9

ददावथ विषं पापो भीमाय धृतराष्ट्रजः।

जरयामास तद्वीरः सहान्नेन वृकोदरः॥ 10

प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्।

तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्॥ 11

यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्।

उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः॥ 12

आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्।

सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा॥ 13

तेषां तु विप्रकारेषु तेषु तेषु महामतिः।

मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत्॥ 14

स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः।

पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः॥ 15

यदा तु विविधोपायैः संवृतैर्विवृतैरपि।

नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्॥ 16

ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः।

धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्॥ 17

`तत्र तान्वासयामास पाण्डवानमितौजसः।'

सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः।

ततो विवासयामास राज्यभोगबुभुक्षया॥ 18

ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात्।

प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम्॥ 19

तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम्।

ततः संप्राप्य कौन्तेया नगरं वारणावतम्॥ 20

न्यवसन्त महात्मानो मात्रा सह परन्तपाः।

धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे॥ 21

पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः।

सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः॥ 22

आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम्।

प्राद्रवन्भयसंविग्ना मात्रा सह पन्तपाः॥ 23

ददृशुर्दारुमं रक्षो हिडिम्बं वननिर्झरे।

हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात्॥ 24

निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः।

प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः॥ 25

एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः।

वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः॥ 26

ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः।

मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने॥ 27

तत्राससाद क्षुधितं पुरुषादं वृकोदरः।

भीमसेनो महाबाहुर्बकं नाम महाबलम्॥ 28

तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः।

निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत्॥ 29

ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम्।

श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम्॥ 30

ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः।

विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः॥ 31

ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च।

भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति॥ 32

अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः।

तस्माज्जनपदोपेतं सुविभक्तमहापथम्॥ 33

वासाय स्वाण्डवप्रस्थं व्रजध्वं गतमत्सराः।

तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः॥ 34

नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः।

तत्र ते न्यवसन्पार्थाः संवत्सरगणांन्बहून्॥ 35

वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः।

एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः॥ 36

अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून्।

अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः॥ 37

उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा।

दक्षिणां सहदेवस्तु विजिग्ये परवीरहा॥ 38

एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम्।

पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता॥ 39

षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः।

ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः॥ 40

वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः।

प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम्॥ 41

अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम्।

स वै संवत्सरं पूर्णं मासं चैकं वने वसन्॥ 42

ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन।

लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्॥ 43

अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्।

सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता॥ 44

सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह।

अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्॥ 45

बीभत्सुर्वासुदेवेन सहितो नृपस्तम।

नातिभारो हि पार्थस्य केशवेन सहाभवत्॥ 46

व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव।

पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्॥ 47

इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्।

मोक्षयामास बीभत्सुर्मयं यत्र महासुरम्॥ 48

स चकार सभां दिव्यां सर्वरत्नसमाचिताम्।

तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः॥ 49

ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्।

वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च॥ 50

अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम्।

ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु॥ 51

नालभन्त महाराज ततो युद्धमवर्तत।

ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम्॥ 52

राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः।

एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्।

भेदो राज्यविनाशश्च जयश्च जयतांवर॥ ॥ 53

53 (289)

Vaisampayana said, 'First, I bow down to my teacher, touching the ground with all eight parts of my body, filled with devotion and respect. I also honor the entire assembly of Brahmanas and other learned individuals. Now, I will fully recount what I have received from the noble sage Vyasa, the wisest among mortals. O king, now that you are ready, you are worthy to hear the story known as the Bharata. Encouraged by my teacher's command, I feel no fear as I speak. 

"Listen, O king, to the tale of the conflict between the Kurus and the Pandavas, and how their gambling led to their exile in the forest due to the Kurus' lust for power. I will share every detail with you, the finest of the Bharata lineage! 

"After their father passed away, the Pandavas returned home and quickly became skilled archers. The Kurus noticed their strength, bravery, and popularity among the people, and this filled them with envy. The scheming Duryodhana, along with Karna and his uncle Suvala, began to plot against them, seeking ways to drive them into exile. Guided by the advice of Sakuni, Duryodhana carried out various schemes to undermine the Pandavas, all in pursuit of unchallenged power."

Dhritarashtra's wicked son poisoned Bhima, but Bhima, strong as a wolf, managed to digest the poison with his food. The villain then tied up the sleeping Bhima on the banks of the Ganges and threw him into the water before walking away. But when Bhima, known for his incredible strength, woke up, he broke free from his bindings and emerged, feeling no pain. 

As he floated, venomous black snakes bit him all over, yet he still did not die. Throughout the many trials the Pandavas faced from their cousins, the Kurus, the wise Vidura worked tirelessly to thwart their evil plans and protect the oppressed. Just as Sakra in the heavens brings happiness to humanity, Vidura consistently shielded the Pandavas from harm. 

When Duryodhana found that neither his secret nor open efforts could destroy the fate-protected Pandavas—chosen for a significant destiny, including the end of the Kuru lineage—he gathered his advisers, including Karna and Duhsasana.

With Dhritarashtra's knowledge, he ordered the construction of a house made of lacquer. Driven by love for his children and desire for power, Dhritarashtra cleverly sent the Pandavas to Varanavata. They departed Hastinapura with their mother, and before leaving, Vidura warned them of imminent danger and how to escape it. The sons of Kunti arrived in Varanavata and lived there with their mother. Following Dhritarashtra’s orders, these noble warriors resided in the lacquer palace, staying alert against Purochana’s threats for an entire year. 

Underneath the ground, they built an escape route as instructed by Vidura, and set fire to Purochana's house, resulting in his death. Fearing for their lives, the Pandavas fled with their mother. While hiding in a forest by a spring, they encountered a Rakshasa. However, terrified of being discovered by the sons of Dhritarashtra, they escaped into the night. 

It was in this place that Bhima met and married Hidimva, the sister of the slain Rakshasa, and their son Ghatotkacha was born. The Pandavas, committed to their vows and learned in the Vedas, then traveled to the town of Ekachakra, living there as Brahmacharins. In that town, they resided in a Brahmana's home for a time, practicing self-discipline. It was then that Bhima encountered a fierce, flesh-eating Rakshasa named Vaka. 

With his incredible strength, Bhima swiftly defeated Vaka, freeing the townspeople from fear. Later on, they learned about Krishna, the princess of Panchala, who was choosing a husband from many suitors. Upon hearing this, they traveled to Panchala, where they won Draupadi as their shared wife, and they lived there for a year. Once they were recognized, these warriors returned to Hastinapura. 

King Dhritarashtra and Bhishma, son of Santanu, advised the Pandavas: 'To prevent disputes with your cousins, we have decided that Khandavaprastha should be your home. So, go ahead, let go of any jealousy, and settle in Khandavaprastha, a land of many towns and wide roads.' 

The Pandavas then journeyed to Khandavaprastha with their friends, bringing along many jewels and precious stones. They lived there for years and conquered many princes through their strength. With a strong commitment to righteousness and truth, unaffected by wealth, they remained composed and combated various evils, gradually rising to power. Bhima, known for his might, conquered the East; the brave Arjuna took the North; Nakula claimed the West; and Sahadeva, the skilled warrior, secured the South. Their influence spread across the world, and with the five Pandavas shining like suns, it seemed as though the Earth had six suns. 

However, Yudhishthira, the just and powerful, sent his beloved brother Arjuna, skilled with the bow, into the forest for a time. Arjuna, a courageous man of solid spirit, spent a year (1) and a month (1) in the woods. During this time, he visited Krishna in Dwaravati and there won the heart of Subhadra, the beautiful younger sister of Vasudeva. Their union was filled with joy, much like the bond between Sachi and the great Indra, or Sri and Krishna.

Then, O great king, Arjuna, Kunti’s son, with Vasudeva, pleased Agni, the god of fire, by burning the medicinal plants in the Khandava forest to help Agni with his indigestion. With Kesava by his side, the task felt light to Arjuna, just as nothing burdens the mighty Vishnu when he sets out to vanquish his foes. Agni rewarded Arjuna with the magnificent bow Gandiva, an endless quiver, and a chariot adorned with the image of Garuda. 

On this occasion, Arjuna freed the great Asura Maya from the threat of fire, and in return, Maya created a heavenly palace filled with jewels for the Pandavas. The sinister Duryodhana, seeing this palace, longed to possess it. He tricked Yudhishthira through deceitful dice games, forcing the Pandavas into the forest for twelve years and one additional year in hiding, totaling thirteen years. 

When the fourteenth year arrived and the Pandavas returned to reclaim their property, they found it denied. This led to war, in which the Pandavas obliterated the entire Kshatriya clan and defeated Duryodhana to reclaim their shattered kingdom. This is the tale of the Pandavas, who stayed true to righteousness, recounting how the Kurus lost their kingdom and the Pandavas triumphed.'"

  

इति श्री जयसंहिते आदिपर्वणि पञ्चमोऽध्यायः॥
 

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13