Droṇaparva Chapter -3 (Eleventh day of war – Part.2)

 

द्रोणपर्व - Droṇaparva (एकादश दिवसीय युद्धम् - भाग-)

अध्यायः – 3  ::Chapter-3 (Eleventh day of war – Part.2)

Shlokas

No. of Shlokas

सञ्जय उवाच॥

ततः प्रजविताश्वेन विधिवत्कल्पितेन च ।

रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् ॥ 1॥

ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः ।

तेन चक्रे महद्युद्धमभिमन्युररिंदमः ॥ 2॥

तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा ॥

उद्बबर्ह सितं खड्गमाददानः शरावरम् ॥ 3॥

स पौरवरथस्येषामाप्लुत्य सहसा नदन् ।

पौरवं रथमास्थाय केशपक्षे परामृशत् ॥ 4॥

जघानास्य पदा सूतमसिनापातयद्ध्वजम् ।

विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् ॥ 5॥

तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः ।

उक्षाणमिव सिंहेन पात्यमानमचेतनम् ॥ 6॥

तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् ।

पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः ॥ 7॥

स बर्हिणमहावाजं किङ्किणीशतजालवत् ।

चर्म चादाय खड्गं च नदन्पर्यपतद्रथात् ॥ 8॥

ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् ।

उत्पपात रथात्तूर्णं श्येनवन्निपपात च ॥ 9॥

प्रासपट्टिशनिस्त्रिंशाञ्शत्रुभिः सम्प्रवेरितान् ।

चिच्छेदाथासिना कार्ष्णिश्चर्मणा संरुरोध च ॥ 10॥

सम्पातेष्वभिपातेषु निपातेष्वसिचर्मणोः ।

न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः ॥ 11॥

ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः ।

शरावरणपक्षान्ते प्रजहार जयद्रथः ॥ 12॥

रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे ।

सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः ॥ 13॥

सिन्धुराजं परित्यज्य सौभद्रः परवीरहा ।

तापयामास तत्सैन्यं भुवनं भास्करो यथा ॥ 14॥

तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् ।

चिक्षेप समरे घोरां दीप्तामग्निशिखामिव ॥ 15॥

तामवप्लुत्य जग्राह सकोशं चाकरोदसिम् ।

वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् ॥ 16॥

ततस्तामेव शल्यस्य सौभद्रः परवीरहा ।

मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् ॥ 17॥

सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा ।

जघान सूतं शल्यस्य रथाच्चैनमपातयत् ॥ 18॥

सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम् ।

समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् ॥ 19॥

तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् ।

जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥ 20॥

सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् ।

एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः ॥ 21॥

वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् ।

शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः ॥ 22॥

तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् ।

ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् ॥ 23॥

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः ।

आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ ॥ 24॥

ताडिता भीमसेनेन शल्यस्य महती गदा ।

साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत ॥ 25॥

तथैव भीमसेनेन द्विषते प्रेषिता गदा ।

तापयामास तत्सैन्यं महोल्का पतती यथा ॥ 26॥

अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव ।

सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः ॥ 27॥

तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ ।

युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव ॥ 28॥

ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः ।

शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः ॥ 29॥

दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् ।

विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् ॥ 30॥

ततः सगदमारोप्य मद्राणामधिपं रथम् ।

अपोवाह रणात्तूर्णं कृतवर्मा महारथः ॥ 31॥

क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः ।

भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत ॥ 32॥

ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् ।

सनागरथपत्त्यश्वाः समकम्पन्त मारिष ॥ 33॥

ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः ।

भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव ॥ 34।

34 (145)

With his swift horses and fully equipped chariot, Paurava (Lakshmana, son of Duryodhana) roared at Abhimanyu, O king. Filled with tremendous strength, Paurava charged at Abhimanyu, eager for battle. The fierce foe, Abhimanyu, then fought valiantly against him. Spinning his starry shield and sword with great speed, he moved across the battlefield, showcasing his skill. Suddenly leaping onto Paurava's chariot, he let out a loud roar. Climbing onto his chariot, he grabbed Paurava by the hair, and with a kick, he killed Paurava's charioteer, then struck down his flag with a slash of his sword. As for Paurava, Abhimanyu lifted him up like Garuda lifting a snake from the rough seas. All the kings watched as Paurava stood helpless, his hair dishevelled, resembling a dazed ox about to be slaughtered by a lion. 

As Jayadratha saw Paurava defeated and under the power of Arjuna's son, he couldn't tolerate it. Grabbing a sword and a shield adorned with a peacock emblem and tiny bells, Jayadratha leaped down from his chariot with a fierce roar. Abhimanyu, Subhadra's son, noticing the king of Sindhu, left Paurava and jumped down to the ground, pouncing like a hawk. They approached each other and fiercely clashed with their swords, like a tiger and lion using claws and teeth. There was no clear difference in the skill of these two warriors as their swords and shields whirled in battle. Jayadratha struck Abhimanyu’s shield just as Abhimanyu aimed his sword at him. But Jayadratha's large sword shattered against Abhimanyu's golden shield as he tried to pull it away. Realizing his sword was broken, Jayadratha quickly retreated six steps and was seen jumping back onto his chariot. After defeating Jayadratha, Abhimanyu, the hero who vanquishes foes, began to devastate the Kaurava forces like the sun burning the world. 

In that battle, Salya threw a fierce iron dart, adorned with gold and flickering like a blazing flame. Arjuna's son, leaping up, caught it, much like Garuda snatching a great falling snake. Then, the hero and son of Subhadra launched that radiant dart, embedded with lapis lazuli, back at Salya. The dart, resembling a freshly shed snake skin, struck Salya's charioteer, killing him and knocking him off his place in the vehicle. 

Seeing his charioteer slain, Salya furiously jumped down from his magnificent chariot, wielding a heavy iron mace. Bhima, seizing his own massive mace, charged at Salya, who looked like the fierce fire of destruction. Subhadra's son, lifting a colossal mace that seemed like a heavenly bolt, called out to Salya, saying, 'Come, come!' However, Bhima, with great effort, convinced him to stay back. The brave Bhimasena then approached Salya, standing firm as a mountain. Salya, observing Bhima, advanced towards him like a tiger stalking an elephant. 

Bound with hempen strings and golden wires, Bhima's magnificent mace dazzled onlookers with its beauty as he wielded it. Likewise, Salya's mace, moving gracefully, resembled a flash of lightning. When Bhima struck Salya's mace, it burst into pieces, scattering fierce sparks. Similarly, when struck by an enemy, Bhima's mace appeared enchanting, like a tree aglow with fireflies at dusk during the rainy season. They quickly approached each other, advancing with eight steps, and collided like two elephants, striking fiercely with their iron maces. Both heroes, overwhelmed by the impact of their blows, fell simultaneously to the ground like two poles of Indra. The powerful warrior Kritavarman then rushed to Salya, who lay senseless, gasping for breath on the battlefield. Seeing him, O king, battered by the mace and writhing like a snake, Kritavarman swiftly lifted the ruler of Madras onto his chariot and took him from the field. 

Stumbling like a drunkard, the brave Bhima, strong and fierce, quickly rose to his feet, mace in hand. Your sons, seeing the leader of the Madras back away from the battle, began to quake with fear, along with their elephants, infantry, cavalry, and chariots. Overwhelmed by the victorious Pandavas, your warriors, gripped by terror, scattered in all directions like clouds driven away by the wind. The mighty charioteers, the Pandavas, having defeated the Dhritarashtras, shone brilliantly in that battle.

सञ्जय उवाच॥

तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् ।

महाबलानां बलिभिर्दानवानां यथा सुरैः ॥ 1॥

ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम् ।

त्वदीयमवधीत्सैन्यं सम्प्रद्रुतमहारथम् ॥ 2॥

तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् ।

अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत ॥ 3॥

ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः ।

प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् ॥ 4॥

तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः ।

तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत् ॥ 5॥

चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः ।

दधार द्रोणमायान्तं वेलेव सरितां पतिम् ॥ 6॥

द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् ।

सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम् ॥ 7॥

कुमारस्तु ततो द्रोणं सायकेन महाहवे ।

विव्याधोरसि सङ्क्रुद्धः सिंहवच्चानदन्मुहुः ॥ 8॥

संवार्य तु रणे द्रोणः कुमारं वै महाबलः ।

शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः ॥ 9॥

तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् ।

चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः ॥ 10॥

स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः ।

तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः ॥ 11॥

शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।

नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ 12॥

युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः ।

सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः ॥ 13॥

व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन् ।

अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् ॥ 14॥

युगन्धरस्ततो राजन्भारद्वाजं महारथम् ।

वारयामास सङ्क्रुद्धं वातोद्धूतमिवार्णवम् ॥ 15॥

युधिष्ठिरं स विद्ध्वा तु शरैः संनतपर्वभिः ।

युगन्धरं च भल्लेन रथनीडादपाहरत् ॥ 16॥

ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः ।

व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान् ॥ 17॥

एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् ।

आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् ॥ 18॥

व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः ।

पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः ॥ 19॥

त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् ।

प्राहसत्सहसा हृष्टस्त्रासयन्वै यतव्रतम् ॥ 20॥

ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च ।

तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् ॥ 21॥

ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् ।

व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्बली ॥ 22॥

तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् ।

युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः ॥ 23॥

ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले ।

हृतो राजेति योधानां समीपस्थे यतव्रते ॥ 24॥

अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् ।

अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति ॥

आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे ॥ 25॥

एवं सञ्जल्पतां तेषां तावकानां महारथः ।

आयाज्जवेन कौन्तेयो रथघोषेण नादयन् ॥ 26॥

शोणितोदां रथावर्तां कृत्वा विशसने नदीम् ।

शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम् ॥ 27॥

तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् ।

नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः ॥ 28॥

ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् ।

छादयन्निषुजालेन महता मोहयन्निव ॥ 29॥

शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम् ।

नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः ॥ 30॥

न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी ।

अदृश्यत महाराज बाणभूतमिवाभवत् ॥ 31॥

नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे ।

बाणान्धकारे महति कृते गाण्डीवधन्वना ॥ 32॥

सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते ।

नाज्ञायत तदा शत्रुर्न सुहृन्न च किञ्चन ॥ 33॥

ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः ।

तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान् ॥ 34॥

स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् ।

ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः ॥ ॥

पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः ॥ 35॥

एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनञ्जयः ।

पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः ॥ 36॥

36 (181)

Sanjaya said, ‘The battle that took place between those mighty men engaged with mighty antagonists and all smiting one another was fierce in the extreme, resembling that (of yore) between the Danavas and the gods. Then Yudhishthira's host, uttering a shout, loud as that of the surging sea, began to slaughter thy troops, the great car-warriors of thy army having fled away. Beholding the (Kaurava) host broken and excessively mangled by the foe, Drona said, 'Ye heroes, ye need not fly away.' Then he (Drona) owning red steeds, excited with wrath and resembling a (fierce) elephant with four tusks, penetrated into the Pandava host and rushed against Yudhishthira. Then Yudhishthira pierced the preceptor with many whetted arrows equipped with Kanka feathers; Drona, however, cutting off Yudhishthira's bow, rushed impetuously at him. 

Then the protector of Yudhishthira's car-wheels, Kumara, the renowned prince of the Panchalas, received the advancing Drona, like the continent receiving the surging sea. Beholding Drona, that bull among Brahmanas, held in check by Kumara, loud leonine shouts were heard there with cries of 'Excellent, Excellent!' Kumara then, in that great battle, excited with rage, pierced Drona with an arrow in the chest and uttered many leonine shouts. Having checked Drona in battle, the mighty Kumara, endued with great lightness of hand, and above all fatigue, pierced him with many thousands of arrows. Then that bull among men (Drona) slew that protector of Yudhishthira's car-wheels, Kumara, that hero observant of virtuous vows and accomplished in both mantras and weapons. And then penetrating into the midst of the (Pandava) host and careering in all directions, that bull among men, Bharadwaja's son, became the protector of thy troops. 

And piercing Sikhandin with twelve arrows, and Uttamaujas with twenty, and Nakula with five, and Sahadeva with seven, and Yudhishthira with twelve, and each of the (five) sons of Draupadi with three, and Satyaki with five, and the ruler of Matsyas with ten arrows, and agitating the entire host in that battle, he rushed against one after another of the foremost warriors (of the Pandavas). And then he advanced against Kunti's son, Yudhisthira, from a desire of seizing him. Then Yugandhara, O king, checked Bharadwaja's son, that mighty car-warrior, filled with rage and resembling the very ocean lashed into fury by the tempest. Bharadwaja's son, however, having pierced Yudhishthira with many straight arrows, felled Yugandhara with a broad-headed shaft from his niche in the car. Then, Virata and Drupada, and the Kaikeya princes, and Satyaki, and Sivi, and Vyaghradatta, the prince of the Panchalas, and the valiant Singhasena, these, and many others, desirous of rescuing Yudhishthira, surrounded Drona on all sides and impeded his way, scattering countless arrows. 

Vyaghradatta, the prince of the Panchalas, pierced Drona with fifty keen-pointed arrows, at which, O king, the troops uttered loud shouts. Then Singhasena also, quickly piercing that mighty car-warrior, Drona, roared aloud in joy, striking terror into the hearts of mighty car-warriors; Drona then expanding his eyes and rubbing his bowstring and producing loud sound of slaps by his palms, rushed against the latter. Then the mighty son of Bharadwaja, putting forth his prowess, cut off with a couple of broad-headed arrows the heads decked with earrings from the trunks of both Singhasena and Vyaghradatta. And afflicting also, with his arrowy showers, the other mighty car-warriors of the Pandavas, he stood in front of Yudhishthira's car, like all-destroying Death himself. Then, O king, loud cries were heard among the warriors of Yudhishthira's army to the effect, 'The king is slain,' when Bharadwaja's son, of regulated vows, thus, stood in his vicinity. 

And the warriors there all exclaimed, beholding Drona's prowess, 'Today the royal son of Dhritarashtra will be crowned with success. This very moment Drona having seized Yudhishthira, will, filled, with joy, assuredly come to us and Duryodhana's presence. While thy soldiers were indulging in such talks, Kunti's son (Arjuna) quickly came there, filling (the welkin) with the rattle of his car, and creating, as he came, owing to the carnage he caused, a river whose waters were blood, and whose eddies were cars, and which abounded with the bones and bodies of brave warriors and which bore creatures away to where the spirits of the departed dwell.

And the son of Pandu came there, routing the Kurus, and quickly crossing that river whose froth was constituted by showers of arrows and which abounded with fish in the form of lances and other weapons. And the diadem-decked (Arjuna) suddenly came upon Drona's divisions, covering it with a thick net-work of arrows and confounding the very sense (of those that followed Drona). Incessantly placing his arrows on the bow-string and quickly shooting them, none could notice any lapse of time between these two acts of the renowned son of Kunti. Neither (four cardinal) directions, nor the firmament above, nor the earth, O king, could any longer be distinguished, for everything then became one dense mass of arrows. 

Indeed, O king, when the wielder of Gandiva caused that thick darkness by means of his arrows, nothing could be seen in that battle. Just then the sun also set, enveloped with a dusty cloud. Neither friend nor foe could any longer be distinguished. Then Drona and Duryodhana and others caused the withdrawal of their troops. And ascertaining the foe to be inspired with fear and unwilling to continue the fight, Vibhatsu also slowly caused his troops to be withdrawn. Then the Pandavas and the Srinjayas and the Panchalas, filled with joy, praised Partha with delightful speeches like the Rishis praising the Sun. Having vanquished his foes thus, Dhananjaya then, filled with joy, retired to his tent, proceeding in the rear of the whole army, with Kesava as his companion.’

 

इति श्री जयसंहिते  द्रोणपर्वणि तृतीयोऽध्यायः॥

 

Droṇaparva Chapter- 2

Droṇaparva Chapter- 4

 

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13