ādiparva - Chapter-27

 

आदिपर्व - ādiparva

अध्यायः – 27 ::Chapter-27 

Shlokas

No. of Shlokas

वैशम्पायन उवाच॥

ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु ।

ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ॥ 1॥

तमद्रिकूटसदृशं विनिकीर्णं भयावहम् ।

दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः॥2

एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ॥ ॥

ततः सहस्रशो राजन्नरा नगरवासिनः ।

तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ॥ 3॥

ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् ।

दैवतान्यर्चयां चक्रुः सर्व एव विशां पते ॥ 4॥

ततः प्रगणयामासुः कस्य वारोऽद्य भोजने ।

ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् ॥ 5॥

एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् ।

उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ॥ 6॥

आज्ञापितं मामशने रुदन्तं सह बन्धुभिः ।

ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ॥ 7॥

परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च ।

अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ॥ 8॥

प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने ।

मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ॥ 9॥

स तदन्नमुपादाय गतो बकवनं प्रति ।

तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ॥ 10॥

ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः ।

वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥ 11॥

ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति ।

तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ॥ 12॥

12 (1781)

The next morning, the townsfolk emerged to find the Rakshasa dead on the ground, his body drenched in blood. Seeing this fearsome monster, as large as a mountain, mangled and lifeless, the crowd gasped in shock. They quickly returned to Ekachakra to share the news. Soon, thousands of citizens, both men and women, young and old, gathered to witness the Vaka and marvelled at this extraordinary event. Immediately, they began to pray to their gods. 

Next, they recollected as to who had been responsible for delivering food to the Rakshasa the day before. Once they figured it out, they approached that Brahmana to satisfy their curiosity. 

Pressed by their questions, the esteemed Brahmana, wanting to protect the Pandavas, explained to the crowd, 'A noble Brahmana, skilled in sacred chants, saw me grieving with my kin after receiving the order to feed the Rakshasa. He asked about my sorrow, learned of our plight, and assured me with a smile, 'I will take the food to that unfortunate Rakshasa today. Do not worry about me.' Saying this, he ventured into the Vaka forest with the food. This kind act has truly saved us all.' Hearing this, the Brahmanas and Kshatriyas in the city were amazed. The Vaisyas and Sudras were also filled with joy, and they organized a festival in honor of the Brahmana who had eased their fears of Vaka.

जनमेजय उवाच॥

ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् ।

अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ॥ 1॥

वैशम्पायन उवाच॥

तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् ।

अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ॥ 2॥

ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः ।

प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ॥ 3॥

स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा ।

ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ॥ 4॥

ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः ।

उपासां चक्रिरे विप्रं कथयानं कथास्तदा ॥ 5॥

कथयामास देशान्स तीर्थानि विविधानि च ।

राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ॥ 6॥

स तत्राकथयद्विप्रः कथान्ते जनमेजय ।

पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ॥ 7॥

धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः ।

अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ॥ 8॥

तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः ।

विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ॥ 9॥

कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् ।

वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः ॥ 10॥

ब्राह्मण उवाच।

ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि।

द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा॥ 11

द्रोण उवाच।

प्रार्थयामि त्वया सख्यं पुनरेव नराधिप।

अराजा किल नो राज्ञः सखा भवितुमर्हति॥ 12

अतः प्रयतितं राज्ये यज्ञसेन त्वया सह।

राजाऽसि दक्षिणे कूले भागीरथ्याहमुत्तरे॥ 13

ब्राह्मण उवाच।

एवमुक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता।

उवाचास्त्रविदां श्रेष्ठं द्रोणं ब्राह्मणसत्तमम्॥ 14

एवं भवतु भद्रं ते भारद्वाज महामते।

सख्यं तदेव भवतु शश्वद्यदभिमन्यसे॥ 15

एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम्।

जग्मतुर्द्रोणपाञ्चाल्यौ यथागतमरिन्दमौ॥ 16

असत्कारः स तु महान्मुहूर्तमपि तस्य तु।

नापैति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत्॥17

17 (1798)

Janamejaya asked, 'O Brahmana, what did the noble Pandavas do after defeating the demon Vaka?' Vaisampayana replied, 'The Pandavas, O king, after overcoming the demon Vaka, chose to stay at the home of that Brahmana, focusing on their studies of the Vedas. Soon, a Brahmana known for his strict vows arrived at their host's home seeking shelter. Their host, a generous Brahmana himself, welcomed the newcomer with the proper rituals and offered him a place to stay. 

Then the mighty Pandavas, along with their mother Kunti, asked the new guest to share tales of his adventures. The Brahmana spoke to them about various lands, sacred sites, and rivers, recounting stories of kings and remarkable regions and cities. After finishing those tales, he also shared the extraordinary choice of Yajnasena's daughter, the princes of Panchala, and the births of Dhrishtadyumna and Sikhandi, as well as the miraculous birth of Krishna (Draupadi) at the grand sacrifice of Drupada. 

The Pandavas captured Drupada in battle, taking him and his advisors as prisoners, and presented him to Drona. Seeing the defeated king, Drona said, 'O King, I seek your friendship once more; since no one who is not a king deserves to be a king's friend, I have decided to share your kingdom with us. While you will reign over the southern land of Bhagirathi (Ganga), I shall govern the north.' 

The wise Brahmana continued: 'The Panchala king, addressed by the knowledgeable son of Bharadwaja, replied to that esteemed Brahmana skilled in warfare, saying, 'O noble son of Bharadwaja, may you be blessed! Let it be so; may we have lasting friendship as you wish!' After affirming their bond, Drona and the Panchala king, both capable of vanquishing their enemies, departed to their respective homes. Yet, the sting of humiliation lingered in the king's mind constantly. Heartbroken, he began to wither away.'

ब्राह्मण उवाच॥

अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् ।

अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥ 1॥

पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः ।

नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥ 2॥

जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् ।

निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥ 3॥

प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च ।

क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ॥ 4॥

प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥ ॥

अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् ।5

ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥ ॥

तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः । 6

तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥ ॥

याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः । 7

संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥ ॥

तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ ।8

स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥ ॥

बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे ।9

प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥ ॥

पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः ।10

अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥ ॥

येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ।11

उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥ ॥

यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् ।12

सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥ ॥

इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह ।13

आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥ ॥

ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः ।14

उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥ ॥

ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे ।15

अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥ ॥

तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् । 16

विमर्शं सङ्करादाने नायं कुर्यात्कथञ्चन ॥ ॥

तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥ 17॥

जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ।

उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ॥ 18॥

अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह ॥ ॥

द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥ 19॥

द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ।

तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥ 20॥

तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् ।

गुर्वर्थ इति चाकाममुपयाजमचोदयत् ॥ 21॥

याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥ ॥

ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ।22

आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥ ॥

स च पुत्रो महावीर्यो महातेजा महाबलः ।23

इष्यते यद्विधो राजन्भविता ते तथाविधः ॥ ॥

भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः ।24

आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥ ॥

याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा ।25

प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥ ॥

देव्युवाच॥

अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च ।26

सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥ ॥

याज उवाच॥

याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् ।27

कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥ ॥

ब्राह्मण उवाच॥

एवमुक्ते तु याजेन हुते हविषि संस्कृते ।28

उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥ ॥

ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् ।29

बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥ ॥

सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा ।30

ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥

कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता ।31

सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥

श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।32

मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥ ॥

नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ।33

तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी ।

न वै मदन्यां जननीं जानीयातामिमाविति ॥ 34

तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ।

तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ॥ 35

धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि ।

धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥ 36

कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः ।

तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥ 37

धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् ।

उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥ 38

अमोक्षणीयं दैवं हि भावि मत्वा महामतिः ।

तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥ 39॥

39 (1837)

The Brahmana continued, 'King Drupada, filled with sorrow, roamed through various asylums seeking the best Brahmanas skilled in rituals. Deeply troubled by his lack of children, he often lamented, 'I have no offspring who excel in achievements.' In his despair, he would also grumble, 'Curse those children of mine and my relatives!' Consumed by thoughts of avenging himself on Drona, he sighed heavily. Despite his noble status, O Bharata, he couldn't find a way to match Drona's skill and training through his Kshatriya strength. 

While wandering along the banks of the Yamuna and Ganga, he stumbled upon a sacred asylum of Brahmanas. In that sanctuary, every Brahmana was a learned Snataka, following strict vows, and all were exceptionally virtuous. There, the king encountered two sage Brahmanas named Yaja and Upayaja, both disciplined and from a distinguished lineage. They were talented in ancient teachings and capable of assisting the king in his quest. The king then devoted himself entirely to seeking the favor of these exceptional sages. 

The king privately admired the exceptional skills of the younger of the two and sought the guidance of Upayaja, a strict ascetic, by promising him all kinds of desirable gifts. As Drupada worshipped Upayaja, showering him with sweet words and offerings of all that humans desire, he eventually said, 'O Upayaja, if you can perform the necessary rituals to help me have a son who can defeat Drona, I promise to give you ten thousand cows or anything else you wish. I am ready to give whatever you desire.' 

Upayaja responded, 'I cannot perform such rituals.' However, Drupada refused to accept this and continued to serve and honor the Brahmana. After a year, Upayaja spoke gently to Drupada, saying, 'My elder brother Yaja, while wandering through the woods, picked a fruit from a place without caring about its purity. I was there and saw this shameful act. He doesn't care about purity and took that fruit without thinking of the sin it may bring. So, O king, go to him; he will perform spiritual rites for you.' After hearing Upayaja’s words, King Drupada, despite his low opinion of Yaja, decided to visit him. 

Paying his respects to Yaja, who deserved honor, Drupada said, “O Yaja, please perform the sacrifice through which I may have an unbeatable son, one who can defeat Drona. I am ready to give you ten thousand cows.' Upon hearing Drupada's plea, Yaja responded, 'So be it.' Yaja then reflected on the various rites needed for this important sacrifice. Understanding the seriousness of the task, he sought help from Upayaja, who wanted nothing in return. Yaja committed to carrying out the sacrifice aimed at defeating Drona. The wise ascetic Upayaja informed King Drupada about all the essentials required for the great fire sacrifice that would bless him with a child. 'O king,' he said, 'a child will be born to you, as you wish, with immense skill, energy, and strength.'  The Brahmana continued, 'Driven by the desire for a son who could vanquish Drona, King Drupada began making all the necessary preparations. 

Once everything was ready, Yaja poured clarified butter into the sacrificial fire and called to Drupada's queen, 'Come here, O queen, O daughter-in-law of Prishata! A son and a daughter have come for you!' Upon hearing this, the queen replied, 'O Brahmana, my mouth is still full of saffron and other fragrances. I am not yet prepared to accept the sanctified butter that will bring me children. Please wait a moment, O Yaja! Let me prepare for this joyful occasion.' Yaja replied, 'O lady, whether you come now or wait, the purpose of this sacrifice will still be fulfilled since I have already prepared the offering and Upayaja has blessed it with his chants.' 

The Brahmana continued, 'After saying this, Yaja poured the sacred offering into the fire, which then gave rise to a child resembling a divine being, shining like fire and awe-inspiring to all. With a crown on his head, clad in splendid armour, wielding a sword, and bearing a bow and arrows, he often let out fierce roars. Shortly after his birth, he climbed onto a magnificent chariot and rode around for a while. The Panchalas erupted in joyful cheers, 'Excellent, Excellent!' 

Following this, from the centre of the sacrificial platform, a girl named Panchali emerged, blessed with great fortune and remarkable beauty. Her eyes, large as lotus petals, were dark; her skin was dusky, and her hair was blue and curly. 

Upon hearing these words, the Panchalas let out a powerful roar that echoed like a lion's, and the ground trembled under the weight of their joyful gathering. Then, gazing at the boy and girl, Prishata's daughter-in-law, eager to have them, approached Yaja and said, 'Let them know only me as their mother.' Yaja, wanting to honour the king, replied, 'So be it!' The Brahmins present, pleased with this, named the newborn twins: 'Let this son of King Drupada be called Dhrishtadyumna for his boldness and because he was born like Dyumna, with natural armour and weapons.' They also declared, 'Since this daughter is dark in colour, she shall be called Krishna (the dark).' 

The Brahmana added, 'Thus were born these twins from Drupada's great sacrifice. The esteemed Drona, bringing the Panchala prince to his home, taught him all the arts of war in exchange for half the kingdom he had previously taken from Drupada. The noble son of Bharadwaja, accepting fate's hand, acted to ensure his own legacy.''"

 

इति श्री जयसंहिते आदिपर्वणि सप्तविंशोऽध्यायः॥

 

Ādiparva Chapter-26

Ādiparva Chapter- 28

 

Comments

Popular posts from this blog

My thoughts on Śrī Jayasaṃhita

ādiparva Chapter-1

Sabhāparva - Chapter-13